SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रथमः विधिभङ्गारः कारणकार्यानियमदर्शनादित्यनियतादि सदसद्भूतकारणाध्यासाविमुक्त्यनिर्मूलत्वं कार्यभूतस्य जगतः। ____ अतोऽवगम्यतां न किश्चिदन्यत्र फलं तच्छास्त्रेण क्रियते, तस्मादिदं जगल्लोकप्रसिद्धमेवानियतानुपरतव्यापारदृष्टकारणकार्यप्रबन्धमिति वृथैवमादौ शास्त्रारम्भः। अत्र तु शास्त्रमर्थवत्स्यात्, इदं काम(ये) इदं कुर्यादित्याद्यप्राप्ते क्रियाक्रियाफलसम्बन्धे, अर्यो हि ससाधनायाः फलादिसम्बद्धायाः क्रियाया एवोपदेशश्चित्रादिवत्, न तु लौकिक एव गृह्यमाणेऽर्थे विचार इदमेवं न चैवं वेति सार्थकः। माऽवमंस्थाः मृगतृष्णिकादिप्रत्यक्षज्ञानव्यभिचारात् सर्वं प्रत्यक्षं व्यभिचरतीति, किं तर्हि? अनुपहतेन्द्रियमनःप्रत्यक्षं यत्तन व्यभिचरतीति गृह्यताम्, तथा च प्रत्यक्षेण लोके घटादिर्यथा व्यवस्थितस्तथा गृह्यत एव स्वस्थेन्द्रियमानसैस्तत्रार्थे पुनर्वचनमिदमेवं नैवं वेति प्रत्यक्षप्रसिद्धर्बाधकमापद्यते यदि तद्वचनं प्रमाणं स्यात्, न पुनस्तत्प्रमाणं तया प्रसिद्धया स्वयमेव बाध्यमानत्वात् । अनुवादादिभावाभावे यः सिद्धे सत्यारम्भो नियमार्थः स इति परिभाषाया लोके टेष्टत्वात् । नैवं यथेदं लोकेन गृह्यत इति, किन्तु तथा तथा भवतीति वचनम्। शास्त्रकारवचनप्रामाण्ये वा प्रत्यक्षाप्रामाण्यम्, तत्र सर्वविपर्ययापत्तिस्तर्कतः, तद्यथा अलोमा हरिणश्चतुष्पात्त्वे सत्युत्प्लुत्य गमनात्, मण्डूकवत्, मण्डूकोऽपि लोमशस्तस्मादेव
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy