SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रे अतस्तेन नित्यप्रवृत्तेनैव भवितव्यम्, सामान्यतस्तत्स्वभावत्वात्, यथाऽग्निर्दहनप्रकाशनप्रवृत्तः। ननु भस्मच्छन्नोऽग्निरपि न दहति, अत्रोच्यते, अथ कथं जीवति, स्थितेर्जीवितपर्यायत्वात्, स्थितिप्रकाशदहनात्मकस्याग्नेः प्रत्यक्षानुमानविषयस्य सतस्तथाऽग्रहणेऽस्तित्वे प्रमाणान्तराभावात् कथं ज्ञायतेऽग्निरिति, अप्रकाशयन् वा द्रव्यान्तरं तावत्कोशकादि स्वाश्रयमात्रं तत्परिमाणं तावत्, यथा गृहप्रदीपकः पुलिकामात्रमपि। छादनाभावोऽपि च प्रधान इति निरावरणाग्निदहनप्रकाशनवत्तत्स्वभावत्वानित्यप्रवृत्तेनैव भवितव्यमिति तदवस्था नित्यप्रवृत्तता, ततवानभिव्यक्तिसाम्यावस्थानानुपपत्तिः। कालादिकारणान्तरनिरपेक्षस्य तस्य निरवशेषपुरुषविषये स्वान्यत्वज्ञापने कृते कृतकृत्यत्वात् किं साम्यावस्थानेन? अकृतेऽप्यकृतकृत्यत्वात् किं प्रतिनिवृत्त्याप्रयोजनमसिद्धौदनसूपकारनिवृत्तिवत् इति तदवस्थमप्रयोजनत्वम्। ___ अव्यक्तिसाम्यावस्थानानुपपत्तेश्च किमिति सततसमवस्थितसमनुप्रवृत्ति प्रत्यक्षकारणनानाभेदाभिव्यक्तिस्वभावमेवेदं जगत् इति नाभ्युपगम्यते, किमित्यदृष्टं कारणान्तरं परिकल्प्यते? ___एवं तावत्कारणे कार्यसदसत्त्वानियम उक्तः कार्यानियमोऽपि च, तथानुगम्यमानदृष्टान्ताभावात्, किन्तु मृत्पिण्डशिवकस्थासकोस कुशूलघटकपालशर्करिकापांशुवातायनरेणूनामेव लोके दृष्टत्वात्, पुनरुपचयप्राप्तानन्त्यस्कन्धस्य वातायनरेणुपांशुमृत्पिण्डादेश्वक्रकक्रमेण
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy