________________
द्वादशो नियमनियमनयः
अन्ते क्षयायद्येवं ततो वस्तुवत् प्रसिद्धयुपगमः कृतो भवति, इतरथा विनाशोत्पादयोरप्यभावः, प्रतिसन्धानाभावात्, स्थितस्यैव हि भवनमित्यभ्युपगमस्ते, वस्तुव्यवस्थासिद्धयुपहितनियमानतिक्रमात् निष्ठितं तर्हि तत्, अन्तवत्त्वात्, घटादिवस्तुवत्, निष्ठितत्वात् कृतकं ततधारब्धमपि, एवं ते पूर्वनिर्वृत्तवस्तुनिवन्धनाः, क्रियावत्त्वादन्तवत्, यथाऽन्ते क्रिया - भवनं सा पूर्वनिर्वृत्तवस्तुनिवन्धना तथा प्रारम्भादिक्रियाः।
कुतः क्रिया क्षणिकत्वात्? उक्तं हि'क्षणिकाः सर्वसंस्कारा अस्थितानां कुतः क्रिया।
भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते॥ इति, अत्रोच्यते तिष्ठतु तावत् यदन्यत्, क्षणिकशब्दार्थतत्त्वान्वीक्षणादेव क्षणभङ्गवादभङ्गः शक्यते कर्तुम् क्षणिकशब्दस्य अस्त्यस्तिमत्सम्बन्धवाचिठन्प्रत्ययान्तस्य स्थितार्थाभावेऽभिधेयाभावप्रसङ्गात्, न हि क्षणिकशब्दः क्षणेन स्वेन तद्वता चार्थेन स्वामिना विनाऽर्थवान्,' यथा चैत्रेण स्वामिना दण्डेन स्वेन च विना दण्डिक इति शब्दो