________________
३६८
द्वादशारनयचक्रे
नार्थवान् इति तत्समवस्थातृद्रव्यार्थलक्षणार्थो भवितुमर्हति, इतरथा क्षणोऽस्यास्तीति क्षणिक इति न शब्दार्थो घटते।
न, पर्यायविषय एव, तत्स्वामित्वोपपत्तेः द्विविधो हि क्षणः उत्पत्तिक्षणो विनाशक्षणश्च तदनन्तरम् । एवं निरन्तरयोः क्षणयोरुत्पत्तिक्षणानन्तरो विनाशक्षण एव तस्यास्तिपर्यायस्य पर्यायः तस्मात् क्षणिकशब्दः क्षणस्य क्षणान्तरापेक्षत्वादर्थवानिति न दोषः । एवमपि न युक्तोऽपदेशः इतराभावे इतरस्यापि तथाभावात्, यथा दण्डाभावे चैत्रो दण्डिक इति नोच्यते, एवं यदा दण्डो विद्यते चैत्रोऽपि तदाऽस्य तेन तद्वत्ताऽपदेश्यता स्यात्, इह तु यदोत्पत्तिक्षणः न तदा विनाशक्षणः यदा विनाशक्षणो न तदोत्पत्तिक्षण इतीतरकाले इतरस्यात्यन्तमसत्त्वात् प्राच्यापदेशो न युक्तः।
यदपि च 'नाशोत्पादा वित्यादिनिदर्शनमुक्तं तदप्यर्थान्तरयोयुगपत् सतोस्तुलान्तयोर्युज्यते न तु विद्यमानाविद्यमानयोः क्षणयोः योगपद्यम्, घटखपुष्पयोरिव, अथ स्थाता कश्चिद्वयोरपि क्षणयोः उत्तरः पूर्वो वा, तिष्ठतु नाम, तथापि ययेकस्मिन् क्षणे जात इत्यादित्वयोक्तो दोष एव, एवं तावद्योः क्षणयोः सम्बन्धाभावात् क्षणिकशब्दार्थोऽसन् यद्यन्तरालावस्थानव्युदासार्थत्वेऽनन्तरशब्दस्य।
अथाऽऽत्मलाभोऽनन्तरविनाशधर्मसम्बन्धी, अनन्तरवासौ विनाशश्चेति समासत्वात् तस्यैव विनाशधर्मसम्बन्धिनः सम्बन्ध्यस्तीति क्षणिकशब्दोऽर्थवान्, न हि रूपादिविनाशक्षणव्यतिरिक्तः उत्पादक्षणः, तेनैव स क्षणिकः, अव्यतिरेकेऽपि सम्बन्धवाचिप्रत्यय