________________
दशमोऽरः नियमविधिनयः
३५९
समभिरूढः, एकीभावेनाभिमुख्येनैक एव रूपादिरर्थस्तां तां संज्ञा समभिरूढः, यस्य शतसङ्ख्यस्यापीदमेव लक्षणम्, 'वत्थूओ संकमणं होति अवत्थूणये समभिरूढे' । इति, तत्रायं नियमविधिदिशधा भिन्नस्य शतभेदसमभिरूलैकदेशस्य गुणसमभिरूढस्य नामभेदः।
__ अस्य नयस्य चोत्पत्तिविगतिस्थितिभिरपि नैव सम्बध्यते रूपादि, उत्पत्तिविगत्योस्तावत् प्रागभावप्रध्वंसाभावात्मकत्वादुभयमभूतं रूपादि च भूतम्, तयोर्वस्त्वन्तरसङ्गान्तेनेनूभयं व्याहन्यते भूतश्चेत् कथमभूतम्? अभूतश्चेत् कथं भूतं रूपादिवस्तु? इति।
भूता स्थितिरपि च भवनात्मिका सर्वत्र सङ्कामति वस्त्वन्तरमिति न वस्तुतैव, अथ तथा तथा भाव एव भवतीति तस्यैवैकस्याभिव्याप्तिर्न वस्त्वन्तरसङ्गान्तिरिति तन्न, प्रतिवस्तु तथा भवनस्य भूतत्वात्, परस्परव्यावृत्तात्मना सर्वस्य वस्तुनः प्रतिनियतत्वात्, न च भवनेनापि व्याप्तिरस्त्येवमिति स्थित्युत्पत्तिविगतिनिरपेक्षरूपादिमात्ररूपतायां सर्वसिद्धिरिति।
एवं हि नियमो भवति यदि वस्तु, एष नयोऽनन्तरातीतनय प्रतिक्षेपेण पूर्वतरातीतविचारसिद्धोत्सर्गविधिवृत्तात्मीयानाश्चापवादेन नियमः क्रियते विधीयत इत्थंतयेति, पर्यव इति परिगमनं तच्चानेकता गुणः परितो गमनात् स एवास्तीति मतिरस्येति पर्यवास्तिकः। १. आवश्यकनियुक्ति ७५७