________________
३५८
द्वादशारनयचक्रे
कार्यासत्त्वनिवृत्त्येकान्तत्यागाच्च स्ववचनादिविरोधाः, कारणे कार्यसत्त्वन्याये तु स एवोभयसत्त्ववादः, तत्र चोक्ता दोषाः ।
अथ सदेव कार्यमित्येवकारात् सदनवधृतेः पूर्वदोष एवेति।
यथा च पृथिव्यायेवमात्मापि संवृत्या तत्समुदाये प्रज्ञाप्यते तत्सन्ताने वा, 'राशिवत् सार्थवत्,' ननु शुद्धपदप्रयोगादेव नासन्नात्मेति रूपादिवदेवाऽन्य इति चेन्न, शब्दान्तरवाच्यत्वादेवानन्यत्वात्, यथाऽनन्या नररथाश्वद्वीपवती शब्दान्तरवाच्या सेनेति, नरादिपृथक्प्रवृत्तेस्तत्र स्यादसत्त्वम्, आत्मनस्तु नाभूद्रूपापृथग्भावात्तदात्मत्वाच्च, तत्रोच्यते, अनन्यत्र प्रवृत्तेरपि समुदायस्यानन्तरत्वात्, यथा च शिखरादिभ्यः शिखरिणो नार्थान्तरत्वम्।
तत्रापि शिखरादिविभागादेव न स्यादिति चेन्न बुद्धिविभागेऽप्यनन्यत्वात् पानकवत् तयथा मरिचक्षोद....... पानकम् । एवं ससम्प्रयुक्तविज्ञानादिधर्मव्यतिरिक्त आत्मा नास्ति, तद्यथा सुखितो दुःखितो रक्तो द्विष्टोऽवाऽस्मीति संव्यवहारसिद्धिविज्ञानादेव तथैव पुरुषकर्मफलसम्बन्धादिसंव्यवहारसिद्धिः पश्वसु स्कन्धेष्वेव कुतः पुनरात्मग्राहः प्रवर्त्तते? अत्रोच्यते 'औदासीन्याच्च तत्त्वेषु'। पंचस्कन्धतत्त्वविपरीतात्मकल्पनाया विपर्ययज्ञानीभूतत्वात् चित्तस्य सप्तमानान्तर्गताहंमानाकुशलसंस्कारानुशयात्, आत्माऽ स्तीत्यहङ्कारः प्रवर्तते ततः पञ्चस्कन्धव्यतिरिक्तः पुरुष इति।
एवञ्च रूपादितत्त्वस्य वस्त्वन्तरसङ्गान्तेरयथार्थत्वात वस्तुव्यवस्थागतिविनिर्मुक्तेरुभयावस्तुत्वमापादयेत् सेति प्रतिपत्तेः