________________
दशमोऽरः नियमविधिनयः
३५७
अथ वैषम्यरहितविविक्तस्वरूपरूपादिप्रादुर्भाववन भूम्यादिप्रादुर्भावः, तच्च कार्यं सदेवेति निश्चितं ततः कार्यमेव सदस्तु, रूपाद्यसत् स्यात् सद्विलक्षणत्वात् खपुष्पवत्, स्वरूपतत्त्वेन भूतत्वाद्रूपादेः पररूपतत्त्वावि विनः सतः कार्याद्विलक्षणत्वात्, अथेदमपि सत् स्वतत्त्वप्रादुर्भावात्मकञ्चेष्यते ततस्तद्वैलक्षण्यात् कार्यमसत् प्राप्नोति, अस्वतत्त्वाविर्भावात्मकत्वात्, अलातचक्रवत्, अथ मा भूदोष इति सदेव कार्यमिष्यते ततः स्वत एव प्रादुर्भवेत्, सत्त्वाद् रूपादिवदिति तुल्याविर्भावस्ते प्राप्तः।
तदनिच्छतः प्रादुर्भावाविशेषप्रसङ्गपर्यवसानं चक्रकं तत्रैव प्रसङ्गे स्थितं सत्त्वाद्रूपादिवदित्युत्थाप्य सत्त्वाद्रूपादिवदित्येवं विपर्ययेण गमनीयम्, तस्मात् सतोऽन्यस्वभावमेव कार्यम्, एवन्तु रूपादिप्रतिनियतचक्षुरायविषयत्वात् पृथिव्यादयो न प्रत्यक्षाः, अनाविर्भाव्यत्वात् खपुष्पवत्, रूपायेव तु यत्किञ्चित् प्रत्यक्षं स्वत एवाविर्भवितृत्वात्, इतरवदिति प्रत्यक्षत्वाद्यविरोधात्तदेव भवतीति।
अथैवंदोषवदित्युभयसत्त्वपक्षं त्यक्त्वा कार्यासत्त्वाभ्युपगमपरिहारेण कार्यसत्त्वपक्षमेवाश्रयेः, ततः कार्यमेव सदित्यवधार्यमाणः पक्षः स्यात्, तत्र कार्यमेव सदिति कार्यसमीपे एवकारः क्रियते 'यत एवकारस्ततोऽन्यत्रावधारणात्' कार्यस्य सत्त्वेन नियमात् कार्य एव सत्त्वं नियतं नान्यत् सदिति नियम्यते ततश्च रूपादि न सदिति ते प्रसक्तम्, तस्यासत्त्वे कार्यस्यासतः सत्त्वे विपरीता संज्ञा क्रियते सतोऽसदित्यसतश्च सदित्यग्निमङ्गलनामवत्, कार्यसत्त्वमिति च नाममात्रमेव ।