________________
३५६
द्वादशारनयचक्रे
रूपादयः तेषामेव वस्तुत्वात्, अन्यथाऽर्थस्य परिकल्पनामात्रत्वम्, अनवस्थितैकस्वतन्त्रत्वात्, अलातचक्रवत्।
ननु घटादावनवस्थितैकस्वतत्त्वत्वस्य सत्त्वमिति चेन्न समुदायत्वाद् घटस्य शकटादिवदेव साध्यत्वात्, रूपरूपादिस्थितैकरूपत्वेऽपि सत्त्वमिति चेन, रूपसामान्यसमुदायसाध्यत्वात्। __प्रत्येकं वृत्ता रूपादिव्यक्तिर्भेदरूपैव, सा चानवस्थितैकरूपेत्येतन्मात्रसत्यमेव वस्तु, तस्य त्वभिवचनमात्र घट इति परिकल्पनामात्रार्थत्वाच्छब्दस्य, संसारानुबन्धवत्, परमार्थतस्तु पश्चात् पूर्वश्च भावाद्यथा रथस्यात्मा नास्ति तथा संयुक्तावस्थायामपि, यथोच्येत किश्चित् कार्यं बुद्धिपूर्वकं पुरुषेण क्रियते, स्वत एव च कारणात् कार्यमुत्पद्यत इत्येतन्मृषा तैर्यर्थाच्यते – सत् कार्यं यथा रूपादिभिराकाशादीनां भूतानामुत्पत्तिरिति वाचोयुक्तिमात्रेण प्रक्रियावशाद्भिन्नत्वादिति।
यदेतत् सन्नाम ततोऽन्यदेव तु कार्यम्, तदतुल्यविकल्पत्वात्, रूपादिखपुष्पवत्, कथमतुल्यविकल्पः? इह शब्दादीनां कारणानां आकाशादीनां कार्याणामुभयेषां सत्त्वं कार्याणामाकाशादीनामेव सत्त्वमिति द्वौ भङ्गावुपयोज्यौ, इतरयोरभ्युपगतप्रतिपक्षत्वाद्वादाभावात्, तद्यदि तावदुभयसत्त्वं सत्त्वाविशेषात् कार्यकारणयोरविशेषः, सति चाविशेषे यथा स्वरूपतत्त्वा एव शब्दादय उत्पद्यन्ते ऽभिव्यज्यन्ते वा तथाऽऽकाशादयोऽप्युत्पोरन् सत्त्वाविशेषात्, रूपादिवत्, शब्दस्पर्शायेकोत्तरपरतत्त्वोत्पत्तिर्मा भूत्, इष्यते चासौ, तस्मात्तदतुल्यविकल्पता सिद्धा ततस्ततोऽन्यस्वभावं कार्यम्।