________________
३२५
अष्टमोऽरः उभयनियमनयः ख्यानार्थः, वाशब्दो विकल्पार्थः, विकल्पानां गतिः निश्चयः परिनिष्ठा, अनेकान्तः स एवैवं भवेत्, इत्थं सर्वन्यायपरिशुद्धफलत्वादस्य सर्वविकल्पाः विधिप्रतिषेधौ त्वद्वचनादेवापतितौ विधिविकल्पोऽपि सदाद्यात्मकार्थग्रहणात्, अपोहविकल्पोऽपि स्वसम्बन्ध्यन्यप्रतिषेधार्थत्वात्, तेन सर्वथा विकल्पानां गतिः स्याद्वादः, स च द्रव्यार्थपर्यायार्थी, एकान्तत्यागरूपैकवाक्यमत्यात्मको, द्रव्यार्थतः........स्यादनपोह इत्यादि न च तेन........ सर्वेषामपि, ततश्चेदमपि दुरधीतमेवान्यापोहवादिना..........।
यत्तूक्तं वृक्षो मञ्चकः क्रियत इत्यत्र वृक्षशब्दोऽर्थप्रकरणशब्दान्तरसनिध्यादिभिः शिंशपादिष्वपि दृष्टत्वात् सर्वत्र सर्वथा केवलोऽपि शिंशपावाची स्यात् अथ बहुषु पलाशादिषु दृष्टोऽयं वृक्ष इति सामान्यात् संशयो भवतीति चेदेवं सति वृक्षार्थे सत्त्वद्रव्यत्वपार्थिवत्वानि दृष्टानि तेषु निश्चयस्तु दृष्टः, अवृक्षनिवृत्त्यर्थाभिधानवदपृथिव्यद्रव्यासत्त्वव्यावृत्त्या वृक्षाभिधानात्, यथा हि वृक्षादिशब्दाः स्वावयवान् तदनुबन्धिनवार्थान् व्याप्नुवन्ति स्वार्थाभावे न वर्तन्त इति व्यवावृत्तिबलेन निश्चयहेतवः, शिंशपादिस्वार्थाभावेऽपि पलाशादी वृत्तेरन्वये संशयहेतव इति वयन्तु ब्रूमो गुणे दोषाभिमानस्ते स्वपक्षरागात्, अन्वयद्वारेणादृष्टत्वात् केवलात् संशयः यथादर्शनमनुमानप्रवृत्तेविशेष एवार्थादिरपि निश्चयस्तु विशेष -सहितस्य दृष्टत्वात्, सत्त्वद्रव्यत्वपार्थिवत्वादावपि निश्चयो दृष्टबलादेव।
एवमेव च वृक्षार्थभवनप्रतीतिवद्धृक्षशब्दात् पार्थिवद्रव्य-. सत्त्वानि प्रतीयन्ते तैर्विना वृक्षभवनस्यैवादर्शनात् विधिरूपेण