________________
३२४
द्वादशारनयचक्रे नोक्तदोषाः, अत एव चेदं स्वसम्बन्धिभ्योऽन्यत्रादर्शनात्तद्व्यवच्छेदानुमानमिति, अस्य व्याख्या – यत्र दृष्टः सोऽत्र सम्बन्ध्यभिप्रेतो न त्वविनाभावित्वसम्बन्धेन,......... अवृक्षोऽनग्निर्वा न भवतीति, एवञ्च कृत्वा वृक्षशब्दाळूमाच्चानेकाविनाभाविनां पृथिवी द्रव्यत्वादीनामनुमानमुपपन्नं भवति, तद्दर्शनस्पर्शनवृत्तत्वात्, इतरथा त्वनुबन्धिनामन्यत्वादतुल्ये एव वृत्तेरपक्षधर्मत्वादनैकान्तिकत्वविरुद्धत्वानुमानाभासदोषाः स्युः, अनुबन्धिनां त्यागे च तदविनाभाविनः स्वार्थस्यासम्भव एव, ततः प्रत्याय्यप्रत्यायनयोरनुपपत्तिः, तस्मात् स्वसम्बन्धिभावाभावाभ्यां दर्शनादर्शनयोरभिप्रेतानुमानसिद्धिरिति। ___ एवं तर्हि यदि सत्त्वादीनि विशेषणानि वृक्षस्य वृक्षादभिन्नानि वृक्षो भवन्ति स वा वृक्षस्तानि भवति तेन तानि विशेष्यन्ते देवदत्तपाण्यादिवदेकभवनात्मना, तस्मिन्नेकभवने प्रयोगः शाखादिमति दर्शनमित्युच्यते, तत्स्वात्मवत्, ततोऽन्यत्वात् द्रव्यादिवृक्षभावदर्शनात्, द्रव्यायभावदर्शनानभ्यनुज्ञानादतिस्फुट एवायं विधिवादस्त्वयाऽभ्युपगतः, भवनपरमार्थार्थाभ्युपगमात्, यः कोऽपि भवति वृक्षादिस्तदपि भवनमेव भवत एव भवनात् योऽप्यसौव्यावृत्त्यभितः तदपि भवनमेव, भवत एव व्यावृत्तेः पर्वतादेः देवदत्तादेः व्यावृत्तिवत्, वैधर्येण खपुष्पवत्, एवं भवद्भवननिरूपणेऽयमस्य स्थित एवार्थः स चान्यश्चेत्यान्यापोहपरिग्रहोऽनुगमो विधिरेव, तस्मिंश्च सति सर्वथा वा गतिर्भवेदिति।
__अथवाऽनिर्वाहकव्याख्याविकल्पा एकान्तरूपा उपेक्ष्याः, सर्वथाशब्दो विमर्दरमणीयः परिनिष्ठितोऽयं पिण्डार्थ इत्येतदा