SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽरः उभयनियमनयः ३२३ विचारो दर्शनं स्यादिति? स्थिते तु स्वार्थाभावे सामान्यरूपस्याभावमात्रस्य निवृत्तिः, अभावभेदासंस्पर्शात्, वृक्ष इत्यवृक्षो न भवति अग्निरित्यनग्निर्न : भवतीत्यवृक्षाननी अभावभेदासंस्पर्शेनोच्येते, तस्मात् सर्वाभावभेददर्शनेन विनैवापोहो गमक इत्यत्रोच्यते अथ स्वार्थाभावाभावमात्रत्वे वृक्ष इति धूम इति तच्छब्दलिङ्गाभ्यामपोह्यौ घटादिभेदरूपाण्यसंस्पृश्य प्रसज्यप्रतिषेधेन तन्मात्रमेव च गम्येत, न वृक्षादिपर्युदासेन घटादिरात्मा कश्चित् अन्यस्यासत्त्वादविवक्षितत्वाच, स्वयमनवगतः कथमभावं विशेषयितुं शक्नुयात् अवृक्षो वृक्षाभावो न घटाभाव इति, तस्य भावलभ्यात्मलाभत्वात्, उभयत्र सपक्षासपक्षयोः न किञ्चित् केनचिद्विशेषयितुं शक्यम्। ___ ततश्च वृक्ष इत्यवृक्षो न भवतीत्युक्ते इदमुक्तं भवेत् योऽभावाभावः स वृक्ष इति नान्यदभावनिवृत्तेः, ततो घटपटादीनां वृक्षतावत् वृक्षशब्दार्थत्वप्राप्तेः कुतोऽपोहस्तेषां स्यात्, सर्वथा वा गतिर्भवेत्, अतः सर्वदर्शननिराकाहतायां सत्यां शब्दादनुमानाद्वाऽभावाभावमात्र वृक्षाग्नित्वाद् विशेषवचनप्रत्ययानर्थक्यम्, अभावाभावमात्रस्यैकत्वात्, भेदविषयवचनानुमानव्यवहारनिर्विषयत्वात्, अभूतभेदविषयत्वाद्वा खपुष्पादिवत्, अगतिरज्ञानं वा वृक्षशब्दोच्चारणाद्भवेत् सर्वथा, गन्तव्याभावात्, अभावाभावमात्र -वृत्तित्वाच्छब्दानुमानयोरिति। __ अत्रोच्येत न स्वभेदा अपोहन्ते नाप्यशेषभेदा संस्पर्शेनाभावमात्रम्, किन्तहि? स्वसम्बन्धिसामान्यधर्मानुबन्धिभेदेष्वविनाभाविषु दर्शनसंस्पर्शने तद्व्यतिरिक्तेष्वन्यापोहस्य प्रवृत्तिरिति
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy