________________
३२२
द्वादशारनयचक्रे
शब्दैकार्थत्वेऽपि एकोत्तरशतनामत्वाचाम्भसो विषमविषं भवत्यविषमपि विषं जीवनात्मकमप्युदकादि मारणात्मकं दुःप्रयोगात, तथा पीलुर्वृक्षोऽवृक्षत्वादपीलुर्भवति धनादिवत्, हस्तिवत् पीलुर्वा तथा विपर्ययेण, अतः पीलुरपीलुच, अपीलुरपि पीलुच, एवं हरिरामार्जुनादयोऽपि, शक्रसिंहवासुदेवमण्डूकवानरहयादिषु रम्यवर्णदाशरथिबलदेवजामदग्र्येषु तृणसुवर्णवृक्षपाण्डवकार्तवीर्येषु च दर्शनात्। ____ एवं श्रुतिमात्रतत्त्वो गवादिरेकः शब्दोऽप्रतिलब्धविभागोऽ नेकार्थगमकशक्तियुक्तः, एकादित्यानेकार्थकारित्ववत्, प्रत्यर्थवृत्ति -व्यवस्थापका हेतवो यथोक्तं -
'संसर्गो विप्रयोगध साहचर्यं विरोधिता। अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य सन्निधिः॥ सामर्थ्य मौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' सकरभा धेनुरकरभा धेनुः, रामलक्ष्मणौ, रामार्जुनौ, अञ्जलिना जुहोति, सैन्धवमानय, अक्ताः शर्करा उपदधाति, अर्जुनः कार्तवीर्यः, अनुदरा कन्या, सीरासिमुसलैः, मथुरायाः प्राचीनानगरादागच्छामि, द्वारम्, ग्रामस्या) लभेत, स्थूलपृषतीमालभेतेत्यादिषु निमित्तान्तरैरेकार्थस्यावच्छेदः ।
__ अयोध्येत ननूक्तमेव गुणसमुदायमात्रार्थस्य. सर्वथा दर्शनासम्भवः सत्यपि च दर्शनेऽनुमानासम्भव इति पुनरिदानी को १. वाक्यपदीयम् काण्डः २ श्लोकौ ३१७-३१८.