________________
अष्टमोऽरः उभयनियमनयः
तथा सद्वस्त्वपि स्यादिति, अत्र ब्रूमः यदि सच्छब्दोऽसच्छन्दोऽपि भवति तत एव लोकेऽन्यापोहवादे च घटशब्दाद्युदाहरणमवकाशं लभते, सच्छब्द एव सन्नसच्छन्दो भवति, एवं सदेव शब्दयन् घटादिः पटाद्यशब्दतां गमनादसच्छन्दो भवत्येव, इतरथा सत्त्वाभावात् सङ्करादिदोषाच्च, एवमर्थतोऽसच्छब्दो न भवतीत्ययुक्तम् शब्दतोऽपि रूपसिद्धिकृतनानात्वात् सच्छन्दो भवन्नेव न भवतीति ।
―
३२१
एवं द्रव्यादिशब्देष्वपि सत्त्वासत्त्वे द्रष्टव्यें, एवं तावन्महासामान्यापरसामान्यशब्दार्थेषु सर्वस्यादर्शनादयुक्तोऽन्यापोहः ।
विशेषशब्दार्थेषु तु घट इत्यघटो न भवतीत्यत्रापि न भवत्यघटो आमच्छिद्रादिघटोऽघटः
तद्यथा
घटन
भवत्यघटः, सामर्थ्याभावादचेष्टत्वात्, अघटोऽपि च घटो भवति चेष्टार्थत्वात्, घटते घटयति वा तन्तुतन्तुवायगवाश्वादिरिति तथा प्रत्यक्षसिद्धं हि वागादिषु वर्तमानस्य गोशब्दस्यैकत्वम्, अतोऽनन्यत्वमनाशङ्कनीयं किमन्योऽनन्यो गोशब्द इति, तच्छब्दविशेषानिरूप्यत्वात्, यदि हि विशेषरूपस्यानिरूप्यत्वान्नास्त्यनन्यत्वं ततः तत्सम्बन्धाशक्यत्वात्, शब्दानामर्थप्रत्यायनमन्याय्यम्, तस्मादेकात्मकत्वं गोशब्दस्य, तस्मिंश्च सति शब्दस्य शक्तिभेदात् सम्बन्धिभिरभि व्यक्तात्तत्तदर्थप्रत्यायनशक्तयः प्रकल्प्याः, एकपुरुषपितृपुत्रादिवत् प्रतिसम्बन्धमन्यथावृत्तेः । तस्मात् — वागादिभिन्नार्थवाचित्वाद्गौरेवागौर्भवति, । अगौरपि गौर्भवति ।
-
गदनादिविशेषनिरूप्यान्यत्वे वा गवान्तरवद्गौरेवेत्यस्मिन्नपि पक्षे गौरित्यगौर्भवतीत्यपि, वागादिगवाव्यतिरेकातिरेकवत्, अनेक