________________
३२०
द्वादशारनयचक्रे द्विर्नप्रयोगाद्विध्यर्थ एव ज्ञायते, ततः सिद्धे सत्यारम्भो नियमार्थ इति नियम्यते सत्त्वमेव, यो न भवति यथा वा न भवतीति, तस्य द्विविधस्याप्यत्र सम्बन्धो नास्तीत्युक्तं भवति, स च प्रतिषेधो न विधिप्रधानपर्युदासः, प्रसज्यप्रतिषेधमानं तत्, ततश्च अयमस्मादन्य इत्यन्यस्याभावात् पर्युदासात्मकान्यशब्दार्थान्तरापोहस्वार्थाभिधानलक्षणाभ्युपगमत्यागदोषाः स्युः।
अथैतेभ्य एव भयादङ्गीकृतार्थान्तरवृत्तिरपोह इष्यते तत इदं विघटते सदित्यसन्न भवतीति, प्रतिस्वं सत् सर्वमपि घटादीति, सर्वमपि हि प्रतिस्वं प्रत्यात्म सदेवासदपि भवतीतरेतराभावादिभ्यः, अत्र प्रयोगः – असताऽपि हि तेन सता केनचिद्भवितव्यम्, प्रत्येकवृत्तित्वात्, यथा घटादन्यः पटो घटत्वेनासन्नेव पटत्वेन सन् दृष्ट इति, एवमङ्गीकृतार्थभेदत्वे सद्भवत्येवासत्, अभ्युपगतमपि चैतत्त्वयापि घट इत्यघटो न भवतीति वृक्ष इत्यवृक्षो न भवतीत्येवमायन्यापोहशब्दार्थवादित्वादिति ।
द्रव्यादिसामान्यशब्दार्थेष्वपि द्विविधा सैव, तत्र तावदनङ्गीकृतार्थान्तरतायां द्रव्यमित्युक्तेऽद्रव्यं न भवतीति द्विनप्रयोगात् द्रव्यमेव 'सिद्धे सत्यारम्भो नियमार्थ' इति नियम्यते यो न भवति यथा वा न भवतीति तस्य द्विविधस्याप्यत्र सम्भवो न भवतीत्युक्तं भवति, स च प्रतिषेधो न विधिप्रधानः पर्युदासः, प्रसज्यप्रतिषेधमात्रं तत्, ततश्च भाविततदभ्युपगमत्यागः, अर्थान्तरापोहतायां प्रति स्वसन्यायात् यथायोगं तथैव योज्यम्।
ननूच्यमानसच्छब्दवदेतत्सिद्धिः, यः सच्छब्दः स सतः शपनादाह्रानात्, अतो यथा सच्छब्द एव सद्वाची एवञ्च नासच्छब्दः