SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽर: उभयनियमनयः ३१९ इति प्रत्ययोत्पत्तिरिति युक्तम्, त्वदर्शने पुनर्गुणसमुदायस्य न तु पितुरेवादर्शने, असति वा। यथा त्विदं तुल्ये वृत्तिरतुल्येऽवृत्तिरिति व्याचक्षाणस्य तव मते पितृकल्पस्य दर्शनात् स्वार्थस्य परार्थस्य तदन्यस्य तदपोहस्य वाऽप्रतिपत्तिरिति, अथ वा युदि हि स्वार्थः सामान्योपसर्जनो विशेषः समस्तः शिंशपादिरभिहितः स्यात् तेनापोढच संपिण्ड्यायमन्योऽस्मादिति गृहीतः स्यात् तत एवं प्रतिपयेतायं अयमेव भवति, ततोऽन्योऽयं न भवतीति, प्रत्यक्षत्वादुभयस्य, नात्यन्ताविदितवृक्षावृक्षशब्दतायां न चात्यन्तादृष्टवृक्षावृक्षस्वरूपतायां वा सा प्रतिपत्तुर्भवितुमर्हति, खपुष्पवन्ध्यापुत्रादिवत्। वृक्षशब्दादंहिपशब्दोऽनन्यत्वादृक्षः तथा तदर्थोऽग्नेर्वयादिः, उभयत्र वा सत्त्वद्रव्यत्वादि सामान्यविशेषधर्मेभ्योऽनग्निरवृक्षश्चेति विदितसकलवृक्षावृक्षाग्न्यनग्निशब्दार्थस्यैव तज्ज्ञानं दृष्टम्, न हि कचिद्दर्शनमात्राद्वा तद्वृत्तिनियमौ भवतः, व्यभिचारात्, घटमानपादपतरुशाखिभेदवृक्षव्यभिचारात् वृक्षोऽवृक्षो घटोऽघटश्च, अन्यो ऽपि हि भवननन्यो भवति, पीलुहस्तिवृक्षवत् सामान्यविशेषशब्दपर्यायशब्दार्थेभ्यः। सामान्यशब्दार्थेषु तावत् सदित्यसन्न भवतीति, अत्र द्वयी वृत्तिः – अनङ्गीकृतार्थान्तरवृत्तिः सच्छब्दोऽङ्गीकृतार्थान्तरवृत्तिा स्यात्, तत्र व्युदस्तभेदसामान्यमात्रवृत्तिरनङ्गीकृतार्थान्तरवृत्तिः शब्दो ऽपोहः केवलो व्यावृत्त्यर्थो निर्निबन्धनः, सदित्युक्तेऽसन्न भवतीति,
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy