________________
३२६
द्वादशारनयचक्रे
दर्शनसामर्थ्य नैव वृक्षपार्थिवद्रव्यसच्छब्दा आनुलोम्येन त्रिद्वयेकार्थनिश्चयहेतवः प्रातिलोम्येन संशयहेतवः, एवङ्गम्यतामर्थप्रकरणादिसहिताद्वक्षशब्दात् शिंशपाया वृक्षत्वतत्त्वाद्धवादिभ्योऽर्थेभ्योऽन्यस्याः शिंशपादिशब्दादिव गतिर्विशेषदर्शनादेवेति।
यदप्यनियतसंशयं ब्रवीषि सोऽपि विशेषाविशेषदर्शनेनैव, यथाऽविभातैकदेशधूमदर्शनादग्निसंशयो बद्धमूलत्वादिविशिष्टधूमदर्शनात्तु तनिर्णयस्तथा वृक्षशब्दाद्विशेषदर्शनानिर्णयोऽविशेषदर्शनाच्च संशयः, तद्भावदर्शनन्यायवत्, एवं वृक्षत्वस्य शिंशपादिविशेषेषु पृथिव्यादिसामान्येषु चानेकत्र वृत्तेस्तुल्यत्वेऽपि स्वार्थेन सहैव वृत्तेः पृथिवीत्वादिभिर्वृक्षादेरानुलोम्येन तथादर्शनात् प्रातिलोम्येन दर्शनाच्च निर्णयसंशयौ।।
अथ मन्येत तावेतौ न युक्तौ दर्शनादुभयतोऽपि, वृक्षदर्शनस्य धवशिंशपयोरविशेषो निश्चय एव वा स्यात्, मन्मते पुनः तौ युज्येते, अतुल्यत्वात् स्वार्थाभावे वृत्त्यवृत्त्योः, ते हि संशयनिश्चयहेतू, संशयहेतवस्तावत् वृक्षादिशब्दाः शिंशपादिस्वार्थाभावेऽपि पलाशादौ वृत्तेः, निश्चयहेतवस्तु वृक्षावयवान् तदनुबन्धिनच पार्थिवादीन् व्याप्नुवन्ति स्वार्थस्याभावे न वर्त्तन्त इति ते व्यावृत्तिबलेनैवेति।
न, दर्शनोत्सर्गापवादाभ्यां वस्तुनोऽतुल्यत्वात् संशयनिश्चयौ, स्थाणुपुरुषविषयशकुनिनिलयनवस्त्रसंयमननियतोत्सर्गापवादभूतोर्द्धत्वसामान्यदर्शनवत्।
ननूक्तं वृक्षादेरभावो ह्यवृक्षादिस्तत्रैवादर्शनम्, ततो व्यवच्छेद्य -मानं यदवृक्षादि न भवतिति तदेव स्वार्थाभिधानमिति, एवञ्च सति