________________
३१६
द्वादशारनयचक्रे
अत एव च यत्तद्गोविषाणवदेकतो व्यभिचाराभावादुभयं लिङ्गं लिङ्गि वा, विषाणं हि प्रमेयत्ववत्, व्यभिचारि, इतरवद्गौरव्यभिचारी कृतकानित्यत्वयोस्तुभयमव्यभिचारात्, अस्मदुक्तव्याप्तेविधिरूपाया एव गम्यगमकत्वात्
'विधेयार्थप्रचारेण यस्माद्व्याप्तिरपेक्ष्यते।
लिङ्गे लिङ्गिानि च व्याप्तिः तस्मात् सत्येव कारणम्॥" इति, न यथा त्वयोच्यते
'प्रतिषेध्याप्रचारेण यस्माद्याप्तिरपोहते।
लिङ्गे लिगिनि च व्याप्तिस्तस्मात् सत्यप्यकारणम्॥ इति, विधेयो भावः नाभावः प्रतिषेध्यः तस्य प्रचारः नाप्रचारः, तदर्थगमनप्रकर्षेण चारः प्रचारः, अन्य ....... न धूमसामान्याग्नि मद्गतिवत्, यस्माद्व्याप्तिरेवंविधा परस्पर संसृष्टाऽपेक्ष्यते गतादर्थस्य, अस्मदिष्टा वैविध्येन व्याप्तिरुभयाव्यभिचारात्मिका तस्मात् स्फुटमेवान्वयदृष्टान्तो नोच्यते यत्र यत्र धूमस्तत्र तत्राग्निः, यत्र यत्रानिस्तत्र तत्र धूम इति, तस्मात् सत्येव साधनम्, तस्माद् दृष्टान्तलक्षणमपि 'साध्येनानुगमो हेतोः साध्याभावे च नास्तिता" इत्यनर्थकमथवा भ्रान्तम्।
यथाऽग्निसान्निध्यार्थविशेषणै—मात्मलाभामवत्त्वमग्नि . सानिध्यसाधकं तथा शब्दकृतकत्वं, पूर्वपूर्ववर्णविनाशस्योत्तरोत्तर वर्णोत्पत्तेः कारणत्वात्, शिवकादिविनाशक्रमेण घटकृतकत्ववत्,
१. ग्रन्यकृतः
२. प्रमाणसमुच्चयः
३. तत्रैव