________________
अष्टमोऽर: उभयनियमनयः
३१५
गृहाङ्गणगते मृत्पात्रकाराः शिल्पिनोऽग्निं कुर्वन्ति तत्रैव तौषस्तौषाग्निं गमयतीति विशेषाणामपि लिङ्गित्वदृष्टेर्लिङ्ग एव लिङ्गिनो भावः।
अथोच्येत तस्यैव व्यभिचारिणो विशेषा न तु गम्यन्त इति विशेष्योक्त एवेत्येतदपि न, तैक्ष्ण्यादिवचनात्, मया तत्रापि चोक्तमेव तद्भावदर्शनविधेरेव तदिति, तस्माल्लिङ्गे लिङ्गी भवत्येवेत्य युक्तमुक्तम्।
न च लिङ्गिन्येव लिङ्गमिति नियमो वासगृहवत्, शक्यते च लिङ्गे धूमे नियमादग्निरिति वक्तुम्, असन्धुक्षितानग्नित्वात्, स ह्यसन्दीप्तेन्धनावस्थोऽरण्यवस्थो वाऽग्निरधूमकोऽधूमकत्वादनग्निरेव, भस्मच्छन्नस्यापि बाष्पोष्मपुद्गलनिश्चरणात् सेन्धनत्वं सधूमत्वञ्च परमार्थतः तत्परिणामात्, सर्वत्र धूमेऽग्निनियतः, तथाऽनौ धूमः, एवञ्च लिङ्गं लिङ्गिनि व्यापित्वादेव गमकत्वं भजते, कृतकानित्यत्ववत्। ___ त्वन्मतिवद्भेदं कृत्वा साध्यधर्मस्य लिङ्गित्वे साधनधर्मस्य लिङ्गत्वेऽपि ब्रूमः
'यथा लिङ्गमपि व्यापि लिङ्गिन्यङ्गयपि तत्तथा।
व्यापित्वादुभयोर्लिङ्गलिङ्गिता गोविषाणवत् ॥" संयोगिवद्धृत्तौ साध्यसाधनयोः प्रदेशधर्मत्वात् प्रसिद्धाप्रसिद्धसम्बन्धित्वविवक्षया धर्मिण एवैकस्य लिङ्गत्वाल्लिङ्गित्वाच्च।
-
१. ग्रन्थकृतः