________________
३१४
द्वादशारनयचक्रे
व्यवच्छेदेन दृष्टवत्, त्वन्मत्या व्यावृत्तेस्त्वनुमानाप्रामाण्यापत्तिः, न भवति न भवतीत्यभवनपरमार्थत्वादन्तरमभावो वा, अत्यन्ताज्ञानात्, अनध्यवसायवत्, ग्राह्यवृत्त्यननुरोधिप्रतिपत्तेर्वा विपर्ययवत्, तस्माद् दृष्टवदेवानुमानतदाभासौ, यथादृष्टज्ञानानुबद्धत्वात् इति।
एवञ्च तदपि दूषणं यत्सम्बन्धानुमानलक्षणस्य प्रसक्तं न दूषणमेव, दृष्टविधिवृत्तेरनुमानोक्तेः।
यथाह – न हि सर्वत्र लिङ्गिनि लिङ्गं सम्भवत्येवायोऽग्निवदिति, अत्रोत्तरं लिङ्गिनि देशेऽग्निमति धूमो भवनेव पक्षधर्मो भवति, नाभवन्, असिद्धत्वात्, लिङ्गिनि लिङ्गं भवत्येव, वात्यादिव्युदासेन, तस्य चाग्निगततैक्ष्ण्यादिलिङ्गत्वं न भवति, न दृष्टत्वामे तैक्ष्ण्यादिना च विधिवृत्त्या, यथा वाऽऽह – यदा भवति लिङ्गं तदा नालिङ्गिनि भवत्युदकादौ धूम इति, तदपि न घटते नियमेन तस्य सद्भावे तत्रैवानौ नान्यत्र लिङ्गत्वम्, अत्रशब्दवाच्यैतत्प्रदेशसम्बन्धिन्येवाग्नी लिङ्गत्वात्, तस्मात् स एव तस्यैव लिङ्गम्, धूमगत -द्रव्यत्वायग्यप्रकाशनन्त्वस्मदिष्टदर्शनविधेरेव, तथाऽव्यभिचारात् ।
यथा च त्वयोच्यते लिङ्गे लिङ्गी भवत्येवेति तत्र लिङ्गे चेल्लिङ्गिनियमः तथा च धूमादग्निगतिवत् धूमावधारणकारणविशेषसहचाराग्निविशेषः तेभ्य एव किमिति नेष्यते? यथा प्रचुरहरिततृणेन्धनोऽग्निः मशकनिवारणार्थं यत्र गोकुले क्रियते तत्रैवोक्तविशेषो धूमस्तार्णाल्पतादिविशेषानग्नेर्गमयति तथा बहलतुषावकीर्णे