SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ अष्टमोऽर: उभयनियमनयः ३१३ यस्मालिङ्गे धूमे लिङ्गयग्निर्भवत्येव न नभवत्यपि तस्माद्युक्तं यदग्निवद्धूमो द्रव्यत्वादीनामस्ति प्रकाशको न तैक्ष्ण्यादीनाम्, यस्माच्च लिङ्गिन्येव लिङ्गं भवति नान्यत्र तस्माद्युक्तं यद्धूमो धूमत्वेनेव पाण्डुत्वादिभिरपि प्रकाशयति न द्रव्यत्वादिभिरिति सामान्यस्य गमकत्वं लिङ्गिनि, न विशेषाणाम्, लिङ्गस्य च विशेषाणां केषाञ्चिद्गमकत्वं न सामान्यस्य तदेतत्सर्वमविनाभावादाधाराधेयबत्तेरिति, एषामपि तद्भावदर्शनविधेरेव गमकत्वं यत्र दृष्टः तद्रमयति न यत्र चादृष्टस्तद्वयवच्छेदेन । न हि योषिद्गण्डपाण्डुत्वं गमयत्यग्निम् अभूताग्निधूमत्वात्, धूमभूतं तु पाण्डुत्वं गमयत्यग्निम्, धूमभूताग्नित्वाद्विधेरेव तद्भावस्य तद्भावत्वेनैव गमकत्वात्, यथा चेदं तथा द्रव्यत्वादिसामान्यमपि गमकमग्नेः धूमभूताग्नित्वात्, पाण्डुत्ववत्, यत्तु धूमो दीप्त्यादीनां न प्रकाशक इत्युक्तं तदपि तद्भावदर्शनविधेरेव, तथा चान्यथा च दृष्टत्वात् व्यभिचारात् दर्शनविधेरेवानुमानलक्षणोपपत्तेश्व, 'तद्भावदर्शनानुबन्धेन हि बुद्धयुत्पत्तिरनुमानम्', धूमवत्त्वं प्रदेशस्याग्निमत्त्वानुबद्धमेवेत्यैकान्तिकग्रहणेऽनुमानं भवति धूमादग्निरत्रेति, तस्यैकान्तेनैव ग्रहणमव्यभिचारात्, व्यभिचारात्त्वनुमानाभासं वृक्षक्षुपादिवत्, यथा वृक्षः क्षुपो वाsत्र धूमादित्यनुमानाभासं व्यभिचाराद्दर्शनबलेनैव तथाविधदर्शनबुद्ध्यनुबद्धमेवानुमानमपि । एवमनध्यवसायविपर्ययानुमानाभासावपि तदतत्पक्षद्वयगत - मेकान्तमनाश्रित्य ज्ञानमनवधृतार्थमनध्यवसायः, विपर्ययश्चाभूते भूतप्रत्ययो भूते चाभूतप्रत्ययः, एतावप्यनुमानाभासौ, तत्परिणामा "
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy