________________
३१२
द्वादशारनयचक्रे एवञ्च बद्धमूलत्वादिविशिष्टधूमपरिग्रहेऽग्नेरपि गृहीतत्वान्न प्रत्यक्षादिप्रमाणान्तरमपेक्ष्यम्, कृतकत्वेनेवानित्यत्वस्य, कृतकमित्युक्ते तदेव ह्यनित्यमध्रुवमित्युक्तं भवति, उत्पादविनाशयोरध्रौव्याभेदात्, तथा धमूग्रहणेऽग्निग्रहणं प्रदेशात्माभेदात् स एव निमित्तमग्निधूमस्य सहचरच, न हि तस्य धूमस्याग्नितोऽन्यन्निमित्तं भवितुमर्हति परिणाम्यभेदपरिणामान्तर साध्यत्वे परिणामान्तरसाधनत्वात्, पूर्वप्रत्यक्षवदन्यकाले सम्बन्धस्मरणादन्यतर विवक्षितहेतुनोपात्तस्येतरस्य साध्यस्याभिव्यक्तिः क्रियते, अर्हत्तत्त्वस्याभ्युपगम्यमानत्वात्।
स्ववचनानपेक्षायामप्यनित्यं सर्व प्रयत्नानन्तरीयकं न भवतीति ते वचनं न्यायापेतमेव, तान्यपि सिद्धप्रयत्नानन्तरीयकान्येव, लोकप्रत्यक्ष......... चेतनविहितवृत्तित्वात् कुड्यादिवत्, लोकप्रत्यक्ष.......... वातादीनामनण्वादित्वे स्पर्शादिमत्त्वाज्जीवशरीरत्वेऽपि तु नात्यन्तशरीरवत्ता ....... स्वयं प्रवृत्तत्वात्, स्थपतिवत् वातादिचैतन्ये सिद्धे चेतनविहितवृत्ति च विद्युदभ्रमेघशब्दादि....., सवितृगति....... तस्मात् विद्युदादीनि प्रयत्नानन्तरीयकान्यनित्यानि चेत्यन्योऽन्यगम्यगमकतेति ।
याऽप्याधाराधेयवद्धृत्तिः 'लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत् पुनः। नियमस्य विपर्यासेऽसम्बन्धो लिङ्गलिङ्गिनोः॥".
१. प्रमाणसमुच्चयः