________________
अष्टमोऽरः उभयनियमनयः
३११
यथा रूपस्पर्शयोः, कचित् निमित्तनैमित्तिकभावो यथा दण्डघटयोः, इह तु द्वयवयवमेव लिङ्गम्, तत्राविनाभावी सहचरिभावः सहचरो यस्मिन् विद्यत इति सहचरी धूमस्याग्निः, इनिः सप्तम्यर्थे, अस्य त्रिविधोऽर्थः अस्मिन् विद्यत एव, न न विद्यत एव, न च न विद्यतेऽपि कचिदिति, तस्मिन् हि किल सति विद्यत एवाग्निः, न न विद्यते वात्यादिवत्, न च न विद्यतेऽपि धूमसहचारयोऽग्निधूमवत्, न वा सपक्षसहचरे न विद्यत एव, कृतकमिव नित्य इत्येवमसिद्धविरुद्धानेकान्तिकव्युदासः।
नन्वेवं सहचरिभावादनुमानसिद्धौ किमर्थं निमित्तनैमित्तिकभावोपादानम्? एकावयवमेवास्त्विति, एतच्च न, अग्निवद्व्यभिचारि -त्वाद्भूमस्यापि, यदिह स सदा.... सत्यपि सहचरिभावे निमित्तभूतमग्निमन्तरेण विशिष्टधूमस्यैवाभावः, पाण्डूर्ध्वगतिबहलोत्सङ्गयेकदेशबद्धमूलपुनःपुनरुत्थायिधूमस्य अग्निमन्तरेणाभावानिमित्तनैमित्तिक भाव एषितव्यः।
बलाकापताकावच्च निमित्तसद्भावेऽपि नैमित्तिकस्य स्थपतिकृतप्रासादादिवत् नैमित्तिकसद्भावेऽपि निमित्तस्य चाभावदर्शनात् सहचरिभावोऽप्येषितव्यः, धूमाग्योर्व्यभिचारदर्शनात् सहचरिनिमित्तत्त्वोपपत्तावपि देशान्तरासञ्चारितत्कालसन्निहिताग्निनिमित्तस्य विशेषण विशिष्टस्यैव धूमस्य सहचरिण्यग्नौ गमकत्वेन विशेषणार्थ वत्त्वात्, इतरथाऽग्निमत्त्वमेव न गमयति उभयतोऽपि यस्मात् तस्मात् स यथाऽग्निमत्त्वं गमयति तथा सन्निहिताग्निनिमित्तत्वमपि, उभयत्राव्यभिचारात् ।