________________
अष्टमोऽरः उभयनियमनयः
३१७
अस्मादेव च न्यायायदप्युक्तं त्वया 'नाशिनः कृतकत्वेने त्यादि तदप्येवमव्ययं
'नाशिनः कृतकत्वेन व्याप्तेस्तत्कृतकं कृतम्।
अनित्यत्वमभिव्याप्त्या कृतकेऽर्थे प्रदर्यते ॥" तद्व्याख्या चेयं ........... कृतकत्वस्यानित्यत्वमिति, एतस्मादेव न्यायात् यो ह्युक्तः 'विषाणित्वेन गौप्तिः' इत्यादिश्लोकः सोऽपीत्थं पठितव्यः,
'विषाणित्वेन गौाप्तो विषाणित्वं प्रसाधयेत्।
गव्येवानियमात्तत्तु न गवार्थप्रसाधनम् ॥२ गोत्वाद्विषाणीति संयोगिवद्विधिवृत्तेः साधयेत् विषाणितां गोत्वम्, तेनैव नियतत्वात्, विषाणित्वं पुनरस्मादेव न्यायात् गवार्थं न साधयेत् एवं तावदाधाराधेयवद्वृत्तिपक्षे दोषाः संयोगिवद्विधिवृत्तिपक्षे गुणाश्चेति द्वयमप्युक्तम्।
यत्पुनर्निरुक्तीकृत्यान्वयासम्भवं व्यतिरेकासम्भवमाशय उक्तम् । स्यादेतद्वयतिरेकस्याप्यसम्भव इति, तयुक्तमुक्तम्, उक्तसंयोगिवद्विधिवृत्तिमन्तरेणान्वयव्यतिरेकयोरभावात्, अन्वयव्यतिरेकौ हि प्रत्ययात्मको, न वस्तुगते तुल्यातुल्ययोवृत्त्यवृत्ती त्वदुक्ते, विशेषस्यैव वस्तुत्वात्।
न च सम्भवोऽस्ति लिङ्गस्य सर्वान् व्यावान् व्यतिरेचयितुम्, आनन्त्यात्, सर्ववृक्षार्थान्वयवत् यत्तूच्यतेऽतुल्ये सत्यप्यानन्त्ये १. प्रमाणसमुच्चयः २. तत्रैव