________________
द्वादशारनयचक्रे
अप्रत्यभिज्ञातमग्न्यादिसम्बन्धिदेशस्य लिङ्गित्वं लिङ्गत्वश्च, न धर्मयोरग्निधूमयोः धूमो लिङ्गं अग्निर्वालिङ्गीत्युक्त्वा यत्पुनरिदमुच्यतेऽग्नितो sपि धूमानुमितिप्रसङ्ग इति वयं ब्रूमस्त्वां शिक्षां ग्राहयन्त इह देशसाध्यतामुक्त्वा लिङ्गलिङ्गितत्त्वव्यवस्थानवृत्तेरेवं वक्तव्यमग्निमतो ऽपि धूमबदनुमानप्रसङ्गः..... उभयतोऽपि तथा तथेष्टवद्वृत्तेः यदि धूमविषय एतदेव स्यात्, अग्निरेव वाऽनुमेयः तदाऽग्नितो धूमानुमानं धूमादग्यनुमानवत् स्यात् प्रसङ्गः, संयोगिनोरविशेषात् ।
३०८
1
अथ पुनर्देशस्य साध्यसाधनत्वान्नास्ति दोषगन्धोऽपि धूमवत्त्वस्य हि लिङ्गत्वं युक्तम्, धूमवत्त्वेन सिद्धस्य देशस्य साधकत्वात्, अग्निमत्त्वविशिष्टदेशस्यैव लिङ्गित्वम्, न ह्यग्निमत्त्वस्य युक्तं लिङ्गत्वम्, साध्यत्वात्, साध्यत्वं लिङ्गित्वात्, लिङ्गित्वमसिद्धत्वात्, अस्मन्मतेन तु लिङ्गत्वमप्यग्निमत्त्वविशिष्टस्य देशस्यैव शक्यं भावयितुं कदाचित्, अत एव मया तत्प्रधानमेवोच्यतेऽग्निमतोऽपि धूमवदनुमितिप्रसङ्ग इति ।
नन्वेवं देशमुपेक्ष्याग्नेरेव लिङ्गित्वं स्यात्, अनुमेयत्वात्, उच्यते, न चासौ लिङ्गी भवितुमर्हति लोके सिद्धत्वात्, तथा चोक्तं त्वयाऽस्मन्मतमेव
t
'न धर्मो धर्मिणा साध्यः सिद्धत्वात्तेन धर्म्यपि । धर्मेण धर्मः साध्यः स्यात् साध्यत्वाद्धर्मिणस्तथा ॥
इति, न धर्मो धर्मिणः साध्यः यथाऽग्निर्धूमेन, सिद्धत्वात्, अग्नेः तद्धर्मत्वाभावाच्च तेन धर्म्यपि, यथाऽस्ति प्रधानं भेदानामन्वय
,