________________
अष्टमोऽरः उभयनियमनयः
३०९
दर्शनादिति, धर्म्यसिद्धेरेव धर्मासिद्धेः पारिशेष्याद्धर्मेण धर्मः साध्यः ननु धर्मयोरपि परस्परं धर्मत्वासिद्धिर्धर्मित्वाभावे, साध्यत्वाद्धर्मिणस्तथा — तेन प्रकारेण तथाऽनेकधर्मणो वस्तुनः सिषाधयिषितधर्मविशिष्टस्य साध्यत्वात्, तत्प्रसिद्धधर्मविशिष्टस्य साधनत्वात्, तथा चाह - 'साध्यत्वापेक्षया चात्र धर्मधर्मिव्यवस्था, न गुणगुणित्वेनेत्यदोषः' इति, उपचारादेवेदमुच्यत इति चेत्तच्चायुक्तम्, यस्मात् अत्र हि तत्त्वं मृग्यते सुहृत्सूपचारः... साध्यत्वाद्धर्मिण
स्तथेति ।
एवन्त्वग्निमद्देशस्य लिङ्गत्वम्, धूमवत्त्वसाधकलिङ्गानन्यत्वात् धूमवत्त्वस्वात्मवदेव, ननु नाग्निमत्त्वस्य लिङ्गत्वम्, व्यभिचारात् प्रमेयत्ववदिति, न, धूमवस्तुत्वानुमानभूतपाण्डुत्वबहलत्वाविच्छिन्न - मूलत्वादिरूपेण धूमत्वनिश्चयकरेण लिङ्गत्वस्य नियतत्वात्तत्र लिङ्गि - त्वदोषप्रसङ्गस्यावतार एव नास्ति, प्रत्यक्षत्वात्, तथाऽग्रेरपि प्रत्यक्षत्वे धूमस्य लिङ्गिनो लिङ्गित्वमव्यभिचारित्वोपपादनेन, यदि त्वग्निमत्त्वं प्रमेयत्ववद्धूमं व्यभिचरेत् ततो धूमस्य धूमत्वमेव सन्दिह्येत कुतोऽलिङ्गत्वम्?, अग्र्यविनाभावित्वेनैव तु धूमत्वसिद्धेः स्यात् पक्षधर्मत्वाल्लिङ्गत्वं तथाऽग्नेरपि धूमसिद्धौ लिङ्गत्वम् ।
अथात्र किं प्रतिपत्तव्यं धूमलिङ्गादग्निप्रतिपत्तिवदग्नेरपि धूमप्रतिपत्तिः स्यादिति? अथ किं विषयः सम्प्रधारः ? दर्शितन्यायदेशसाध्यताया हेतोः, तस्माद्युक्तमेव लिङ्गस्य लिङ्गिनो वा लिङ्गित्वम्, धूमस्य लिङ्गित्वापत्तौ तु प्रमेयत्ववदग्निमत्त्वव्यभिचारा - लिङ्गत्वाभाव एव, धूमसंयोगित्वमेवाग्रेर्गमकं दृष्टम्, यत्र यत्र धूमः
20