________________
अष्टमोऽरः उभयनियमनयः
३०७
तस्यैवाभिव्यञ्जकत्वव्यक्तः, तथेहापि, चेत्राश्वोदाहरणमत्र स्वस्वामि -सम्बन्धस्योपलक्षणार्थम्, अग्निधूमानित्यकृतकत्वादिषु तुल्यन्यायत्वात्, पक्षधर्मात् सोऽत्र तद्वत्सत्त्वात्, यत्र यत्र तद्वत्सत्त्वं तत्र तत्र सोऽस्ति पूर्ववत्।
नन्वेवमविनाभावोपवर्णनमेवेदम्, उच्यते – एवमेवैतत्, आधाराधेयसंयोगिवद्वृत्त्यभेदात् अस्मदभिहितेस्तु पूर्वत्वादस्मन्मतोप -जीवनमेव, यथात्वमविनाभावसम्बन्धं व्युत्पादयसि तत् सम्बन्धानु -मानैकदेशस्यैवैतल्लक्षणस्य भाष्यमात्रम्, एवञ्च द्रव्यार्थासत्योपाधिसत्यार्थव्याख्यानुज्ञा कृता त्वया, तथा च लिङ्गिनो लिङ्गत्वं प्रसक्तमित्यस्याभावः।
तथापि स्याद्विवक्षाभेदात्तथा तथास्वस्वाम्यादिगम्यगमकत्वात्, यथा देवदत्तयज्ञदत्तयोरन्यतरकर्मणा योगः तयोश्चान्योन्यलिङ्गत्वं पर्यायेण विवक्षावशाद्भवति युगपद्वोभयकर्मजसंयोगित्वात् तथा स्वस्वाम्यादिषु, तथाहि....... अग्निना धूमानुमानम्, न, संयोग्येकरूपत्वात्तत्काल एवायं व्यतिकरप्रसङ्गः, न, असम्भवात्, प्रत्यक्षत्वाद्भूमोऽसाध्यः साधनन्तु, साध्यस्त्वग्निप्रत्यक्षत्वादसाधनम्, धूमोऽपि साध्यश्चेत् प्रत्यक्षमप्रमाणं स्यात्, तदप्रामाण्ये चानुमा निर्बीजा स्यादिति।
संयोग्येकरूपत्वानुमानाच्चानिष्टापादनमुपेक्षितार्थम्, संयोगित्व ....... यत्पुनरुक्तं यस्य त्वविनाभावित्वं... ........ अदोष इति, वयन्तु बमोऽत्र गुणदोषाभिमानः साध्यसाधनधर्मवद्देशाद्यनुमेयत्वमुक्त्वा पुनस्तस्यैव दोषाभिधानात्