________________
३०६
द्वादशारनयचक्रे
विरोधैरविरुद्धार्थः, पक्षो धर्मधर्मिसमुदायाख्यः परार्थानुमाने साध्याभिधानमिति वक्ष्यमाणो निर्दोष एव शेषसिद्धिवचनेन गृहीतः, यथायोगं तेन तेन सम्बन्धेन सम्बद्धात् प्रत्यक्षात् प्रत्यक्षवद्वा प्रसिद्धात् पक्षधर्मस्य सम्बन्धात् प्रागुपलब्धादनुस्मर्यमाणाच्छेषेण शेषस्य सिद्धिरिति शेषसिद्धिवचनादेव विरुद्धासाधारणधर्मव्युदासः, शेषाय शेषे वा प्रत्यक्षादेकस्मात् सम्बन्धादित्येतावता सिद्धेः सिद्धिवचनं सिद्धिरेव नासिद्धिरित्यवधारणादसिद्धिर्व्यभिचारिधर्मता मा भूदिति, तद्यथा- स्वाम्यसम्प्रदान............अतिप्रियसुतवत्।
इत्थं हि व्यभिचारिविशेषव्यावर्तनेनापि स एव सम्बन्धी गमकः सम्बन्ध्यन्तरस्य, न ते विशेषा व्यावा विधेया वा गमकाः, तत्समर्थनार्थत्वात्, न हि वात्या प्रसङ्गव्यावर्तनेन धूमस्याव्यञ्जकत्वम्, अधूमता वा धूमतैव हि सती वह्नितायाः सम्बन्धिनी सम्बन्धिन्या व्यञ्जिकेति शेषसिद्धिवचनानिरस्तव्यभिचाराशझं सम्बन्धानुमानमेव, त्वयापीष्यत एवैतत् प्रसिद्धसम्बन्ध्येवाप्रसिद्धसम्बन्धिनो गमकम्, तदव्यभिचारस्वरूपावधारणार्थ व्यभिचारविशेषव्यावृत्तिरुच्यते यथा कृतकत्वस्यानित्यत्वा -व्यभिचारप्रदर्शनार्थं यदनित्यं न भवति तत्कृतकमपि न भवतीति व्यतिरेक उच्यते।
ययुपलब्धसम्बन्धस्य पुनरव्यभिचारित्वापेक्षमनुमानं न स्यात् व्यतिरेकवचनं पक्षधर्मसाध्यानुगतिसमर्थनार्थं न स्यात्, नापि च तस्यैवाभिव्यञ्जकत्वमापयते; तथा चास्मन्न्यायेन कृतकत्वस्यानित्यत्वोपलब्धसम्बन्धस्य व्यतिरेके पुनरव्यभिचारापेक्षानुमिति र्युक्ता,