________________
३००
द्वादशारनयचक्रे
पुनर्यत्रासौ धूमः स, ताभ्याश्चान्ययोरपोहो? तदभावात् कुतः तावपि? इति।
यच्च धूम.......... गुणसमुदायोऽसौ नाग्निदेशौ नाम कौचिदपि स्तः, तज्ज्ञानाभ्यां तु तदध्यारोपणेनेत्यादि आ नन्वित्येतस्माद्न्थात् स एव ग्रन्थो यावदन्योपादानमात्मनश्च त्याग इति । एवं तावत् पक्षधर्मस्य चानुपपत्तिः किं भवदेव भवति? उताभवत्? अन्यापोहश्च गुणसमुदायपरमार्थश्व स्वार्थ इत्यादि विकल्पैरात्मापोहात्, तैरेव विकल्पैर्विचार्यमाणयोः सपक्षासपक्षयोरभावात् एवमनुमानमप्रमाणमेव, अतत्तत्प्रत्ययात्मकत्वात्, अलातचक्रधीवदिति।
अत्रेत्यभिधेयस्य लिङ्गित्वाल्लिङ्गत्वाच्चाग्निमद्भूमवत्तयोश्च विभागविवक्षायां साध्यसाधनधर्मभावाल्लिङ्गिनि लिङ्गस्यासम्भवो न सम्भवति, तयोस्तत्रैव प्रधानोपसर्जनभावेन परस्परं नियतभावत्वात्, तौ देशस्यैकस्य भेदविवक्षायां साध्यसाधने भवतः।
अग्निमत्पक्षोपरि विचिकित्सायां........ तत्सम्बन्धिमत्प्रतिपत्तिथ, यदि च तस्य देशस्य............तयोरेकवस्तुधर्मत्वात्, न चेदिच्छसि ततो नासम्भवद्भूमो लिङ्गतां लभते, अपक्षधर्मत्वात्, यथा तस्मिन् प्रदेशे प्रभादेः धूमोऽयोग्यादि काले वा, वनस्पतिचैतन्ये स्वापवच धूमः सन्देहहेतुः स्यात् पक्षाव्यापिसाधनधर्मत्वात् तत्प्रतिपत्त्याधानाधारधर्मभावात्मकप्रत्ययाव्यवस्थानकारणत्वात् स्थाणुपुरुषभावाभावप्रतिपत्तिवत् ।