________________
अष्टमोऽर: उभयनियमनयः
३०१
यत्तु तदन्यत्रादर्शनं प्रत्यक्षतस्तय॑ते तत्र सपक्षे सर्वत्र दर्शनाभावेऽदोष एव, लिङ्गिन्यदर्शने तु स्याद्दोषः, लिङ्गी चात्र प्रदेशः . प्रत्यक्षधूमसम्बन्धी तत्र सर्वत्र दृश्यत एव, तस्माद्धान्तवचनमेतत् सर्वत्र लिङ्गिन्यदर्शनात्त्वदिष्टवत् प्रतिपत्तिरिति, एवश्च दर्शनबलादेव गमयतीत्युक्ते यस्तद्विपरीतः प्रकाश्यप्रकाशकत्वभेदपाठः
'सम्बन्धो यद्यपि द्विष्ठः सहभाव्यङ्गलिङ्गिनोः।
आधाराधेयवद्धृत्तिः तस्य संयोगिवन्न तु॥" इति “यथाहि सत्यपि द्विगतत्वे सम्बन्धस्य न कदाचिदाधार आधेयधर्मा भवति, नाप्याधेयः आधारधर्मा तथा न कदाचिल्लिङ्गं लिङ्ग भवति लिङ्ग च लिङ्गं, संयोगी तु यथैकस्तथा द्वितीय इति न तद्वदिहेति, तथा हि
'लिङ्गे लिङ्गि भवत्येव लिङ्गिन्येवेतरत् पुनः।
नियमस्य विपर्यासेऽसम्बन्धो लिङ्गलिङ्गिनोः ॥२ यस्माञ्च लिङ्गे लिङ्गी भवत्येव तस्मायुक्तं यदग्निमद्भूमो द्रव्यत्वादीनां अस्ति प्रकाशको न तैक्ष्ण्यादीनाम्, यस्माच्च लिङ्गिन्येव लिङ्गं भवति नान्यत्र तस्मायुक्तं यद्भूमो धूमत्वेनेव पाण्डुत्वादिभिरपि प्रकाशयति न द्रव्यत्वादिभिरिति।
ननु च लिङ्गमपि लिङ्गिनि भवत्येव, यथा कृतकत्वमनित्यत्वे, 'कामं लिङ्गमपि व्यापि लिङ्गिन्यङ्गि न तत्त्वतः।
व्यापित्वाननु तत्तस्य गमकं गोविषाणवत्॥" १. प्रमाणसमुच्चयः २. तत्रैव ३. तत्रैव