________________
२९९
अष्टमोऽर: उभयनियमनयः
पक्षधर्मे च वाऽग्निः धूमस्याधारः प्राप्नोत्यनुमेयत्वादिति सपक्षस्य तुल्यादेरभावस्तदभ्युपगमे पक्षाभावः, प्रागुक्तशब्दानुमानविषयवदिति तस्मिन्नेव पक्षधर्ममात्रलक्षणा वृत्तिः स्यादन्यत्र न, तस्मादन्वयव्यतिरेको न स्तः, अथ भवति ज्ञानं धूमोऽयमग्निरयं वृक्षोऽयमिति ततः शाब्दलिङ्गिके अपि ज्ञाने प्राप्ते प्रत्यक्षे, अन्वयव्यतिरेकवियुततथ्यज्ञानत्वात्, सनिकृष्टार्थवत्।
अत इदं स्वप्रतिपाद्यवस्तुधर्मत्वे सत्यन्वयव्यतिरेकाभ्यां तस्य गमकत्वादनुमानं शब्द इति पूर्वापरासमीक्ष्यैवोक्तम्, अन्वयव्यतिरेकरहितत्वस्योक्तत्वात् प्रत्यक्षत्वस्योपपादितत्वात्, एष तु पाठो घटमान उपलक्ष्यते ___ 'नाप्रमाणान्तरं शाब्दमनुमानात्तथा हि तत्।
कृतकत्वाद्यपि स्वार्थमात्मापोहेन नाशयेत् ॥ इति, यदि न प्रमाणान्तरं शाब्दमनुमानात्तथा हि तत् । कृतकत्वा दिवदिति मन्यते ततोऽन्यापोहार्थकृता दोषाः, न शब्द एवैकस्मिन् दोषाः, तद्विधदोषजालोपनिपातसम्बन्ध्येव तेऽनुमानमपि, नन्वेवं कृतकत्वाद्यप्यनुमानं स्वार्थमात्मापोहेन नाशयेदेव, अन्यापोहेन स्वार्थप्रतिपत्त्यगमकत्वात्, अन्यापोहशब्दार्थवत्, धूम इत्यधूमो न भवतीति निरन्वया प्रतिपत्तिरेव, ग्राह्यस्य दर्शनरहितत्वात्, अगृहीत -ब्राह्मणाब्राह्मणार्थप्रतिपत्तिवत् गुणसमुदायो हि धूमाख्योऽर्थः, पाण्डुबहलोत्सङ्गाद्यानन्त्ये धूमाभावात्, संवृतिमात्रत्वाच्च समुदायस्य तदर्थागतेः कुत एवान्यापोहः? एवं तावद्भूमार्थ एव न निधीयते, किं १. ग्रन्यकृतः