________________
२९८
द्वादशारनयचक्रे वृत्तिः, रूपादिभेदसमुदायसंवृत्यर्थत्वात्, रूपादिसत्यत्वप्रतिपादनार्थेऽपि च डित्थायुदाहरणे त्वयैव समुदायाभावोक्त्याऽन्यापोहप्रयासे रूपादिपरस्परव्यावृत्त्याऽभवनपरमार्थत्वान्न किश्चित्सत्यम्, सजातीयासजातीयव्यावृत्तस्वरूपत्वात्, तत्सत्यस्यापि क्षणालिपाति -त्वादत्यन्तापूर्वत्वादनिर्देश्यस्वलक्षणत्वात् कतमद्रूपम्? एवं सर्वत्रातुल्य एंव वृत्तिः शब्दस्य, अप्रामाण्यं वा।
शब्दवत्तु लिङ्गाद्वैलक्षण्यमेव स्यादनुमानत्वात्, अननुमानं वाऽद्विलक्षणत्वादसाधारणवत्, अन्वयव्यतिरेकाभावात् पक्षधर्मत्वमात्रं विरुद्धवत्, सपक्षवृत्त्यभावात्, किमुक्तं भवति अन्यत्र वृत्त्यसम्भवात्, अत एवान्वयाभावाद्व्यतिरेकव्यापारावकाशाभावस्तस्मादेकलक्षणं शब्दवदिति, सन्निधानमप्यनुमानत्वार्थप्रतिपत्तावकारणम्, तावन्तरेणापि तदुपपत्तेः, साध्यधर्मसाधनव्याप्तिवत्, ततस्तयोरकारणत्वात् पक्षधर्मत्वमात्रकारणत्वादेकलक्षणं शब्दवल्लिङ्गमपि, अनुमानत्वात्, एकलक्षणत्वाच्च विरुद्धमपि, उक्तवत्।
___ शब्दोऽपि वा नानुमानं विरुद्धवदिति लिङ्गस्यापि प्राप्तम्, व्यर्थतैव वा, स्वार्थस्यासम्भवात्, पक्षधर्ममात्रस्याप्यभावोऽनध्यवसायात् म्लेच्छशब्दज्ञानवत्, विपर्ययाद्वा विरुद्धज्ञानवदग्निरत्र धूमादि -त्यस्मिन्नपि स्वार्थानुमाने गुणसमुदायो हि धूमाख्योऽर्थः बहलकुटिलत्वाद्यानन्त्ये च धूमत्वाभावो ज्ञातसम्बन्धत्वाभावात्, संवृतिमात्रत्वाच्च समुदायस्य तदर्थागतेस्तबारेण नानुमानमित्यलक्षणं लिङ्गं स्वार्थमात्रस्यापीति तदेकलक्षणतापि नैव, इत्थं कुत एव तस्यागृहीतत्वादुभयप्रतिपत्तेरभावेऽन्यापोहः?