________________
अष्टमोऽर: उभयनियमनयः
२९७
सामान्येन समानार्थाभिमतितुल्यार्थान्तरे वृक्षशब्दस्य वृत्तिरस्ति, सपक्षधर्मार्थावच्छिन्नार्थत्वात्, कृतकत्वस्येवानित्येषु, तस्मात् सपक्षाभावात्तत्तुल्ये नास्ति वृत्तिः शब्दस्य, किं तर्हि? तत्रैव वृत्तिः, तस्मात्रैलक्षण्याभावान्नानुमानं शब्दः, त्वन्मतवत्तत्रैव वृत्तावसपक्षवृत्तिगतदोषापत्तिश्च।
हेत्वपवादनियमितत्वादसद्वृत्तिगतदोषो नेति चेन, पक्षसपक्षासपक्षाव्यवस्थायां तद्व्यवस्थाभावात्, आपत्त्यभ्युपगमे त्वन्यापोहान्यथात्वात् स्वार्थापोह एव स्यात्, सपक्षावच्छिन्नस्यापि सपक्षत्वात्।
सपक्षापक्षेपणक्षीणशक्तेश्च पक्षापक्षयोर्विशेषं गमयितुं नालम्, साध्यनिर्देशवत्, तद्विषयपक्षधर्मत्वादेव तुल्ये वृत्तिरिति चेत्, अननुमानं तर्हि शब्दोऽद्विलक्षणत्वात्, असाधारणवत् विरुद्धोऽपितद्विषयमात्रार्थत्वादन्यापोहशब्दार्थत्वस्य, व्यतिरेकस्य स्वार्थासंभवादपि व्यर्थतैव वा, पक्षमात्रस्याप्यलक्षणत्वात्, अव्यक्तश्रुतिवत् । ___ गुणसमुदायो हि वृक्षार्थः उक्तवत्, संवृतिसतः सामान्यसमुदायाख्यस्यासत्त्वात् विशेषाणामृजुवक्रविवरकोटरादीनामवाच्यत्वात् तदेकलक्षणतापि नास्ति कुतः स्वार्थाद्भिनस्याभूतस्य प्रतिपत्तिः? अन्यस्य यतोऽपोहः सिद्धयेत्, स तु नास्ति, तदभावात्, यश्च वृक्षशब्दस्तस्य वृक्षार्थाभावात् पक्षधर्मत्वाभावः, तत्कथं वृक्षार्थो नास्ति? गुणसमुदायसंवृत्त्यर्थत्वात् सेनाशब्दवत् वृक्षशब्दस्य समुदायार्थवृत्तितैवेति चेन्न, अभ्युपगतमूलादीनां तदात्मत्वेनैकत्वे तदतुल्यत्वात् वृक्षार्थस्य तुल्यातुल्यवृत्त्यवृत्त्यादिवचनवैयर्थ्यमेव। ..
संवृतिसत्यत्वाच समुदायस्यापि वृक्षवदनर्थत्वात् सेनावनादेरपि व्यर्थत्वमेव, मूलादिस्वरूपसत्तामात्रत्वेनाप्यतुल्य एव