________________
२९६
द्वादशारनयचक्रे
लिङ्गयेव, कथं तस्य लिङ्गं नास्ति? अथ नास्ति लिङ्गं कथं तद्वानिति स्ववचनविरोधि ते वचनम्।
अग्निधूमोदाहरणे चेदमः प्रत्यक्षविषयस्य सप्तम्यन्तनिर्देशेऽत्रेति प्रत्यक्षोपलभ्यधूमाधारप्रदेशाभिसम्बन्धो धूमवत्त्वाळूमादिति, यथाऽग्निरोति साध्याधारप्रदेशप्रत्यक्षनिर्देशादग्नेः परोक्षस्य जिज्ञासितत्वात् तद्वत्त्वेन देशस्य साध्यत्वम्, इतरथाऽत्रेत्यनर्थको निर्देशः स्यात्, तस्मात् सर्वलोकप्रसिद्धिमत्यग्निमति प्रदेशे साध्ये सर्वत्र धूमवत्त्वं लिङ्गमस्त्येव, न च सर्वाग्निमत्प्रदेशसाध्यत्वम्, तत्र दृष्टान्ताभावादसाधारणतादिदोषप्रसङ्गात्।
अयोगुडाङ्गारायग्नौ धूमासम्भवादिति चेन, अग्निसत्त्वस्य सिद्धत्वात्, अयोगुडाङ्गारभस्मच्छन्नाग्निष्वपि धूममात्रायाः कस्याश्चि -दर्शनात्तदविनाभावात् तद्विषयलिङ्गालिङ्गत्वात्तदलिङ्गित्वात् प्रत्यक्ष विषयवत्।
___ तदसिद्धौ पक्षधर्मादिनिर्मूलत्वाद्वनस्पतिचैतन्ये स्वापवत् स्यात्, देशविशेषानपेक्षाग्निसामान्यसाध्यत्वेऽसाधारणत्वमत्रेत्यभिधानवैयर्थ्यश्च, तन्मा भूदित्यत्रशब्दवाच्यस्याग्निविशिष्टस्य धूमपक्षविसंवादे साधाभावाल्लिङ्गशब्दयोः कुतोऽनुमानत्वं शब्दस्य? यदि लिङ्गवच्छब्दः त्रिलक्षणोऽन्यापोहेन स्वार्थं गमयतीति मन्यसे ततो वृक्षशब्दस्य व्यवच्छिन्नात् वृक्षादभिधेयादन्यत्र तुल्ये सपक्षे वृत्तिः स्यात्, अनुमानत्वात्, अन्वयदर्शनार्थप्रयुक्तघटादिवत् ।
ननु वृक्ष एव वृत्तिः स्यात् पक्षत्वाद्धृक्षाणाम्, अनुमानत्वादेव त्वदभिमतावृक्षानिवृत्तिमात्रं वृक्षता, नान्यस्मिन्नपि साध्यधर्म