________________
अष्टमोऽरः उभयनियमनयः
२९५
कृतसम्बन्धजातिशब्दभेदवाचित्वेऽप्यदोषः, तथाऽर्थांशेऽदृष्टत्वात्, अपोहस्वार्थवत्, त्वन्मतस्वार्थेऽपि वा तद्वद्दोष एव स्यादिति कुतः तुल्यातुल्ययोवृत्त्यवृत्तिभ्यामन्वयव्यतिरेको? कुतो वा शब्दस्याभिधेयस्य पक्षधर्मत्वम्? लिङ्गवल्लिङ्गिनः कुतस्त्रैलक्षण्यम्? कुतो ऽनुमानत्वम्?
एवञ्च शब्दलिङ्गगतपक्षापक्षमिष्यते तदेव पक्षाद्यतथार्थत्वादतत्तत्प्रत्ययात्मकत्वादनुमानमप्रमाणम्, अलातचक्रे चक्रमिति प्रत्ययवत्, तस्मात् साधूक्तं
'नाप्रमाणान्तरं शाब्दमनुमानात्तथाहि तत् ।
कृतकत्वाद्यपि स्वार्थमात्मापोहेन नाशयेत् ॥" इति, इदमपि वाऽत एव पूर्ववदलक्षणं यत्त्वयोक्तं यथा लिङ्गं लिङ्गिनं नातिक्रामति येन रूपेण तेनैव रूपेण चान्यतो व्यावृत्त्यात्मकेन गमयति, सत्त्वायनेकधर्मापि सन् तैस्तान् व्यभिचारान गमयति, गम्यन्ते च लिङ्गयनुबन्धिनः सामान्यधर्माः तैरविनाभावात्, लिङ्गस्य विशेषा न गम्यन्ते तस्यैव व्यभिचारित्वात्, एवं लिङ्गस्यान्यव्यावृत्तं सामान्यं गमकं नाव्यावृत्तम्, लिङ्गिनः सामान्य गम्यं निवृत्तम्, लिङ्गे त्वयं विशेषः 'लिङ्गानुबन्धिनः स्वार्थाः
किमङ्गं.........................................। ................ ................................॥ यत्तूक्तं न सर्वत्र लिङ्गिनि लिङ्गं संभवत्यग्निधूमादिवदिति तदिदमपि यदि १. ग्रन्थकर्तुः २. ग्रन्थकर्तुः