________________
२९४
द्वादशारनयचक्रे
धर्मत्वात्, बाह्यसाधारणः पक्षधर्मा....... एकान्तव्यावृत्तेच, इदमपि चात्र यदन्वयव्यतिरेको शब्दस्यार्थाभिधाने द्वारमित्युक्त्वा पुनरन्वयस्य निराकरणं तद्भवतः केनाभिप्रायेणेति न विद्मः, किं अज्ञानात्? अस्मद्भुद्धिपरिभवात्? इहपरलोकाभ्यामयशसभाभीरुत्वात्? इति। ___ नन्वेवं सर्ववृक्षार्थदर्शनासम्भवात् भेदानन्त्याच्च स्वार्थदेशव्याप्यन्वयाभावात् गुणसमुदायमात्रत्वादभिधानाभिधेययोः कोऽसौ सम्बन्धो येनाभिधानाभिधेयाभाव उपपद्येत, लिङ्गयेकदेशसम्भविलिङ्गस्य गमकत्ववत्तु न स्वार्थांशमात्रे सम्भवति।
प्रत्यक्षवृक्षसम्बन्धाशक्यत्वे प्रतिपत्त्यभाववदेकत्वेऽपि मूलकोटरादिभेदानां सम्बन्धाशक्यत्वादप्रतिपत्तिः किमङ्ग! पुनरत्यन्तपरोक्षस्वर्गादिशब्दस्वार्थांशमात्रे नो चेद्धवखदिराद्यनन्त भेदाभिधानं वृक्षशब्दस्य स्यात्, अदृष्टस्वार्थांशत्वात्, अव्यापिपक्ष धर्मत्वात्, अवृक्षव्यवच्छिन्नस्यापि स्वार्थस्य नानुमानाय नाभिधानाय स्यादृक्षशब्दः, तदेकदेशवर्तित्वात्, अवनस्पतिव्यवच्छिन्नचैतन्यसाधनार्थस्वापवत्।
अशेषपक्षाव्यापी वृक्षशब्दो ह्यशेषमवृक्षव्यवच्छिन्नं वृक्षार्थं नामवृक्षं स्थापनावृक्षं वा सपक्षं नतु न व्याप्नोति, नाप्यनुमानेऽत्र दोषः तत्र कः सम्बन्धः साध्याशेषानित्यत्वाव्यापिप्रयत्नानन्तरीयकत्वानुमानत्वप्राप्तेः? स्वापोदाहरणनिरपेक्षादृष्टदेशवर्तित्वाभ्युपगमेत्वतुल्येऽपि वृत्तिप्रसङ्गः? अवृक्षे घटादौ वृक्षश्रुत्रेः अदृष्टदेशवर्तित्वात्, मूलादिमति पलाशादौ स्वार्थांशे वा वृत्तिवत्, तस्मादेव चानन्त्याद