________________
अष्टमोऽरः उभयनियमनयः
२९३
भेदपक्षे संशयदोषापादनार्थं यत्तूक्तं त्वया व्यभिचारत इति, तन्न विधिवादे तदद्भावात्मकस्य संशयज्ञानस्य प्राप्तत्वात् किमिव न प्राप्तमभिधानम् ? अत्र तूक्तन्यायेन त्वत्पक्षे संशयाद्यनास्पदम्, तदतद्भावभावात्मकशब्दार्थत्वात् तद्व्यक्तेरस्वार्थत्वात् न भवति न भवतीत्युभयतोऽप्यभावविषयत्वात् ।
अथवा त्वन्मतवदेवादर्शनादन्यशब्दार्थः स्वार्थस्य वांशेऽप्यदर्शनादिति, यथोक्तं वृक्षशब्दस्य वृक्षेषु सर्वेषु नहि दर्शनेनास्ति सम्भवः, नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य सम्भवोऽग्निधूमादिवत्, यद्यपि च कचिदस्ति डित्थादिषु सम्भवः तथापि न तद्द्वारेणानुमानम् सर्वात्मनाऽप्रतीतेः, गुणसमुदायो हि डित्थाख्योऽर्थः, न च सर्वे काणकुण्टादयो डित्थशब्दाद्गम्यन्ते एवमन्वयद्वारेणानुमानासम्भव इत्यनेनोत्तरवचनेन त्वदीयेन स्वार्थांशेऽप्यदर्शनमेवेत्युक्तं भवति, तत एव चानुमानासम्भव इत्युच्यतेऽस्माभिः क्वचिददर्शनात् ।
अन्वयानुयुक्त्युदाहृतेः व्यावृत्त्या डित्थोदाहरणमेतदिति चेन्न, तत्प्रतिपत्तिनिर्मूलत्वात्, अनवगतपर्युदासकस्वार्थत्वात्, अविदिते देवदत्ते न भवत्यदेवदत्त इति वचनवत् एवञ्च शब्दस्यार्थाभावेन सम्बन्धाशक्यत्वदोषो य उक्तः स इहापीति श्रुतेः सम्बन्ध दौष्कर्यम्, यः स वृक्षशब्दो यस्य स वृक्षोऽर्थस्तदितरो वा तस्य शब्दस्य तेनार्थेन न शक्यते सम्बन्धः कर्तुम्, तेन सहात्यन्तमदृष्टत्वात् श्रावणत्वनित्यानित्यत्ववत् ।
स च सम्बन्धो नास्ति, उक्तवत्, अत एव यदुक्तं त्वया भेदाभिधानपक्षे दोषजातं व्यक्तत्वात् तन्नास्त्येव, असाधारण