________________
२९२
द्वादशारनयचक्रे यद्यर्थान्तरं स्यादर्थान्तरार्थान्तरत्वतदनन्तरत्वातुल्यः शब्दार्थः स्यात्, यथा वैधपेण घट इत्युक्तेऽघटो नार्थान्तरतदनन्तरातुल्यो दृश्यते न तथेह कश्चिदनान्तरशब्देनाभिन्नमनान्तरमस्ति यतोऽ स्यार्थान्तरस्य पटवदवृत्तिः स्यात्, अर्थान्तरशब्दार्थस्य चानान्तरशब्दार्थाद्भिन्नत्वेऽर्थान्तरमित्युक्तेऽनन्तरं न भवतीत्यपोहार्थों विधिभिन्नः स्यात्, अतुल्ये तस्मिन्नवृत्तेः, घटपटवत्, स्यादेतदेवं यद्यर्थान्तरमेवार्थान्तरत्वे स्थितमनर्थान्तरमुच्येत परापेक्षार्थान्तरत्वात्तदेवार्थान्तरमिति, किन्तर्हि? स्वापेक्षार्थान्तरत्वादेव, योऽसौ तदतत्त्वातुल्यः तस्य स्वतः तस्मादेव पटाद्धटानान्तरत्ववदनान्तरत्वम्, नन्वेवं तदप्यर्थान्तरं अर्थान्तरादर्थान्तरमेव भवदनन्तरं भवति, तस्यार्थान्तरस्य स्वात्मनि व्यवस्थितस्य तदनन्तरत्वं तत्त्वमपोहमानोऽर्थान्तरापोहस्तदपोह एव भवति नान्यापोह इति स्ववचनायशेषपक्षविरोधापत्तिः, अथार्थान्तरापोह इत्यनर्थान्तरापोहो न भवतीत्यपि न परिहार एव, अर्थान्तरापोह इत्यनान्तराभावापोहो न भवति यत इत्यादिः स एव ग्रन्थोऽत्र द्रष्टव्यः, एवमुपक्रमेऽपि च न स कश्चिदर्थो भविता, उभयतोऽप्यभावप्रसङ्गात्, स्वार्थस्यांशोऽपि न दृश्यत एव, अनन्तरं न भवतीत्युच्यमाने उभयतोऽपि न भवति न भवतीत्यनान्तरस्याव्यावृत्तिरेव, न कश्चित् विधिगन्धोऽपीत्यन्यथावृत्तेरभवनपरमार्थत्वादभूतस्वानन्तरत्वाद्वन्ध्यापुत्रवदविषय एव स च निबन्धनमर्थान्तरापोहस्य स्यादिति।
चतुर्थपादेन यत्त्वयोक्तं 'न चास्ति व्यभिचारिते'ति सा तावदास्तां स्वपक्षगतापोहवादिनः तवाव्यभिचारिता विप्रकृष्टत्वात्,