________________
अष्टमोऽरः उभयनियमनयः
२९१
अभवद्वा? यदि तावत् स एव भवन्नर्थोऽर्थान्तरत्वेन स्थितः तदा तच्छन्दोत्पायविज्ञानविषयस्य सिद्धत्वात् तस्मिन्नव्यावृत्त्या विधिवृत्त्यैकगतिगुरुतप्रतिपत्त्यात्मके बहुतरविषये विधिवादे प्रतिपन्ने किमपोहेन पुनः क्रियते?
तदा ह्यर्थापत्त्या अनुगतसामान्यज्ञानं व्यावृत्तिसामान्यज्ञानश्च भवति यदि स्वार्थः अर्थान्तराणि चैतदुभयं स्वत एव सिद्धात्मस्वभावं विधिनैव भवतु, को वारयति? असत्योपाधिसत्यशब्दार्थत्वात् पूर्ववत्।
__ अथार्थान्तरं न भवतीति मन्यसे ततोऽनवस्था प्रश्नस्य, पूर्वव्याख्यातान्यशब्दार्थप्रश्नानवस्थानवत्, अर्थान्तरस्य वोभयविषयत्वात्तदग्रहणे किं तदर्थान्तरम्? कुतो वाऽर्थान्तरं न भवतीत्युच्यते? इति द्विष्ठत्वादर्थान्तरत्वं निर्धार्यम्, एवन्तु न स कश्चिदर्थो भविता, उभयतोऽप्यभावप्रसङ्गात् स्वार्थस्यांशोऽपि न दृश्यत एव, अर्थान्तरं न भवतीत्युच्यमाने उभयतोऽपि न भवति न भवतीत्यर्थान्तरस्याव्यावृत्तिरेव न कश्चिद्विधिगन्धोऽपीति अन्यथावृत्तेरभवनपरमार्थत्वादात्मार्थान्तरत्वाभावः, ततश्चाभूतस्वार्थान्तरत्वाद्वन्ध्यापुत्रवदविषय एव, स च निवन्धनमर्थान्तरापोहस्य स्यात्। अथोच्यतेऽर्थान्तरमनर्थान्तरं न भवतीति, अत्रोच्यते यद्यनर्थान्तरं न भवति ततोऽर्थान्तरस्यैवानुवदनात्, किमुक्तं भवति यदर्थान्तरं तदर्थान्तरमेव सदनान्तरमुच्यते तदेव स्वयमेव भवति ततो यदिदमनन्तरं नाम तदर्थान्तरमेव सदनन्तरमित्युक्तं भवति,. तस्मात्तस्यैवानर्थान्तरशब्देनाप्यनुवदनात् किं तदर्थान्तरं पृथक्?