________________
२८८
द्वादशारनयचक्रे
तत्र यदि तावन्मतमन्य इति स एव भवतीति ततः तच्छब्दोत्पाद्यविज्ञानविषयत्वात् स इति शब्देन यद्विज्ञानं तस्य स्वार्थ एवान्याख्यार्थो विषयः संवृत्तः, ततश्च स्वार्थे तस्मिन्नव्यावृत्त्या विधिनैव प्रतिपन्ने किमपोहेन क्रियते? अर्थप्रतीतेर्वृत्तत्वात्, अथापि स्यादन्यापोहेन प्रयोजनमित्थं - तदा तस्मिन् विधिनाऽन्यविज्ञानकाले यद्यन्यो भवति ततः स न भवति, अथ स भवत्यन्यो न भवतीत्यर्यादापन्नं तदन्ययोरुभयोरपि तत्त्वतश्च स्वत एव सिद्धम्, तस्मात् स्यादप्यनयोरन्यापोप्रत्ययः उपसर्जनो विधिर्नभवितुमर्हति, असत्योपाधिसत्यशब्दार्थत्वात्, इत्थमन्यप्रतिपत्तिविधिरेव न व्यावृत्तिः।
अथान्यो न भवतीति तस्याप्यन्यस्य यदि व्यावृत्तिरेव स्वरूपम्, ततोऽपि प्रश्नाव्यवस्था, सर्वत्रास्याक्षेपस्य तुल्यत्वादुक्तवत्, अन्यत्वस्य चोभयविषयत्वात् तदग्रहणे कोऽसावन्यः? यदपोहादन्यापोहः स्यात्, कुतो वान्यो न भवतीत्युच्यते? यतोऽस्यान्यस्यान्यत्वं सिद्धयेत् निर्धार्यमेतदन्यत्वम्।
एवन्तु न स कश्चिदर्थो भविता, उभयतोऽप्यभावप्रसङ्गात् स्वार्थस्यांशोऽपि न दृश्यत एव, अन्यो न भवतीत्युच्यमाने उभयतोऽपि न भवति न भवतीत्यन्यस्याव्यावृत्तिरेव न कश्चित् विधि -गन्धोऽपीत्यन्यथा वृत्तेरभवनपरमार्थत्वादात्मान्यत्वाभावः, ततधा -भूतस्वान्यत्वाद्वन्ध्यापुत्रवदविषय एव, स च निबन्धनमन्यापोहस्य स्यात् ततश्चाप्रतिपत्तिरेव वन्ध्यापुत्रप्रतिपत्तिवत्।।