________________
अष्टमोऽरः उभयनियमनयः
२८९
अथोच्येतान्योऽप्यनन्यो न भवति, अन्यापोहशब्दार्थव्यापित्वात् व्यावृत्त्यैव गमयतीति, अत्रोच्यते यद्यन्य इत्यनन्यो न भवति ततोऽन्यस्यैवानुवदनात् किमुक्तं भवति योऽयमन्यः सोऽन्य एव सन्ननन्य उच्यते, स एव स्वयमेव भवति ततो योऽसावनन्यो नाम सोऽन्य एव सननन्य इत्युक्तं भवति, तस्मात्तस्यैवानन्यशब्देनाप्यनुवदनात् कोऽसावन्यः पृथक्? यद्यर्थान्तरं स्यादन्यान्यत्वतदनन्यत्वात्तुल्यः शब्दार्थः स्यात् यथा वैधर्येण घट इत्युक्ते ऽघटो नान्यतदन्यातुल्यो दृश्यते न तथेह कश्चिदनन्य शब्देनाभिन्नोऽनन्योऽस्ति, यतोऽस्यान्यान्यस्माद्भिन्नस्य पटवदवृत्तिः स्यात्, अन्योऽन्यापेक्षत्वादन्यत्वस्य, अन्यशब्दार्थस्य चानन्यशब्दार्थाद्भिन्नत्वेऽन्य इत्युक्तेऽनन्यो न भवतीत्यपोहार्थी । विधिभिन्नः स्यात्, अतुल्येऽन्यस्मिन्नवृत्तेः, घटपटवत्, न त्वस्ति, अन्यस्यैवान्यस्यानन्यत्वात्।
स्यादेतदेवं यद्यन्य एवान्यत्वे स्थितोऽनन्य उच्येत परापेक्षान्यत्वात् स एवान्य इति, किन्तर्हि स्वापेक्षान्यत्वादेव, योऽसौ तदतत्त्वातुल्यः स स्वतोऽन्यस्मादेवान्यस्मात् अन्यः सन् घटात् पटानन्यत्ववदनन्यः, न हि घटस्य इतरापेक्षान्यत्ववदन्यत्वम्, पटस्य वाऽनन्यत्वं घटान्यत्ववत्, यथोक्तद्वित्वतुल्यतायामपि तत एवात्मनो ऽनन्यत्वं तत्त्वम् तस्मादन्यत्वमपि स्वत एव, अनन्यत्वमपि तथेवि व्यवस्थिते भवत्यन्यापोह इति।
नन्वेवं सोऽपि अन्यस्मात् अन्य एव भवन् अनन्यो भवति, तस्यान्यस्य स्वात्मनि व्यवस्थितस्य तदनन्यत्वं तत्त्वमपोह