________________
अष्टमोऽरः उभयनियमनयः
२८७ ___ अतुल्ये तु सत्यप्यानन्त्येऽशक्यमदर्शनमात्रेणाख्यानम्, अदर्शने प्रवृत्तेः, अत एव च स्वसम्बन्धिभ्योऽन्यत्रादर्शनात्तद्वयवच्छेदानुमानम्, एवञ्च कृत्वा वृक्षशब्दाद् द्रव्यत्वानुमानमुपपन्नं भवति, अन्वयद्वारेण चानुमानेऽयं दोषः, यस्मादनुगतोऽस्ति वृक्षशब्दार्थादिसहितस्य शिंशपादिषु तस्मात् केवलेनाप्यनुमानं प्राप्नोति।
अथ बहुषु पलाशादिष्वपि दृष्ट इति संशयो भवतीति चेत्, एवं सति वृक्षार्थे पार्थिवत्वद्रव्यत्वसत्तार्थाः सन्ति तेषु वृक्षशब्दस्य समानत्वात् संशयः स्यात्, निश्चयस्तु दृष्टः शब्दादवृक्षनिवृत्त्यर्थाभिधानवदपार्थिवादिव्यावृत्त्या वृक्षाभिधानात्, तथापि वृक्षपार्थिवद्रव्यसच्छन्दा आनुलोम्येन त्रिव्येकार्थनिश्चयहेतवः, न च सम्बन्धद्वारं मुक्त्वा शब्दस्य लिङ्गस्य वा स्वार्थख्यापनशक्तिरस्ति, आह च
'बहुत्वेऽप्यभिधेयस्य न शब्दात् सर्वथा गतिः। स्वसम्बन्धानुरूप्येण व्यवच्छेदार्थकार्यसौ॥"
अनेकधर्माशब्दोऽपि एतदयुक्तम् । यतोऽन्वयव्यतिरेकावपीह न घटेते,
'अन्यापोहार्थनैर्मूल्यात् स्वार्थस्यांशेऽप्यदर्शनात्।
श्रुतेः सम्बन्धदौष्कर्यात् तथापि व्यभिचारिता ॥२ इति, यदिदमुक्तमर्थान्तरापोहेन स्वार्थाभिधानमिति, अत्रार्थान्तरं नामाऽन्योऽर्थ इति यस्माद्भवति तस्मात्तत्तावद्विचार्यते, म किमन्योऽर्थः स एव भवति विधिना? उतान्यो न भवतीत्यपोहेन?
१. प्रमाणसमुच्चयः
२. ग्रन्थकृतः