________________
२८६
द्वादशारनयचक्रे इति स्वार्थावबद्धशक्तित्वात् शिंशपाशब्दः खदिरादिमपोहते, सामान्यार्थविशेषार्थविधिमनियमश्रुतेर्भेदान्तरस्याविवक्षितत्वात्, न तु विरोधित्वात्, सामान्यविशेषयोरविनाभावित्वे सामान्याविनाभाविना विशेषान्तरेण स्वरूपेणैव कयं विरुध्यते विशेषः एतेन सामान्यान्तरभेदार्थाः स्वसामान्यविरोधिन इत्यादि सर्वमभिहितन्यायेन प्रत्युक्तार्थमित्यलमतिप्रसङ्गेन।
यत्तूक्तं कथं पुनः शब्दस्यार्थान्तरापोहेन स्वार्थाभिधानम्? पूर्वदोषाप्रसङ्गश्च कथम्? इत्यत्र त्वया
'अदृष्टेरन्यशब्दार्थे स्वार्थस्यांशेऽपि दर्शनात् । श्रुतेः सम्बन्धसौकर्यं न चास्ति व्यभिचारिता ॥"
अनुमानानुमेयसम्बन्धो हि अभिधानाभिधेयसम्बन्धः, तत्र यथा धूमस्यैकदेशे दर्शनादग्नेर्वाऽदर्शनादनग्निव्युदासेनाग्निप्रतीतिः तथा शब्दस्यान्वयव्यतिरेकावर्थाभिधाने द्वारम्, तौ च तुल्यातुल्ययोवृत्त्यवृत्ती, तत्र तुल्ये नावश्यं सर्वत्र वृत्तिराख्येया, कचिदानन्त्येऽर्थस्याख्यानासम्भवात्, न हि संभवोऽस्ति वृक्षशब्दस्य सर्ववृक्षेषु दर्शनेन, नापि सर्वत्र लिङ्गिनि सर्वलिङ्गस्य सम्भवो ऽग्निधूमादिवत्, यद्यपि च कचिदस्तिडित्यादिषु सम्भवस्तथापि न तद्वारेणानुमानम्, सर्वात्मनाऽप्रतीतेः, गुणसमुदायों 'हि डित्याख्यो ऽर्थः, न च सर्वे काणकुण्टादयो डित्थशब्दाद्गम्यन्ते, एवमन्वयद्वारेणानुमानाभावः।
१. प्रमाणसमुच्चयः