________________
अष्टमोऽरः उभयनियमनयः
२८५
स्वरूपाप्रतिलम्भात्, अत्र यदुक्तं 'नोपात्तः संशयोत्पत्तेः साम्ये चैकार्थता तयोः' इति तत् कुतः संशयः? कुतो वा साम्यैकार्थस्ते, अनुपात्तत्वाद्विशेषाणाम्, उपात्तत्वान संशयः स्यादृक्षवदिति चेन, उक्तत्वात्।
अनेकञ्च सामान्यमिह वृक्षः शिंशपेत्युक्ते भेदशब्देनोपात्तम्, शिंशपाविध्येकार्थीभूतार्थत्वात्, अतस्तयोश्चित्रा विशेषणविशेष्यता, विवक्षावशात्, शिंशपा वृक्षः वृक्षः शिंशपेत्यनियमदर्शनात्, नामायनेकं सामान्यं, पूर्वोक्तविधिना सर्वस्य नामादित्वात्, शिंशपैव वा नामाद्यपेक्षया सामान्यम्, तच्चेदं भेदेन वृक्षण व्यभिचारिणा विध्येकार्थीभूतत्वादुपात्तं ततः संशयः स्यात्, अवृक्षशिंशपा -व्यावृत्त्यर्थं वृक्षशिंशपामानयेति भवत्येव विशेष्यविशेषणत्वानियमः, न तु यथोच्यते त्वया न तयोस्तुल्ये विशेषणविशेष्यते इति, दृष्टत्वानियमेन तुल्यत्वस्य। यदप्युच्यते त्वया
'भेदो भेदान्तरार्थन्तु विरोधित्वादपोहते।
सामान्यान्तरभेदार्थाः स्वसामान्यविरोधिनः ॥" इति, तत्रापि न तु विरोधित्वादपोहते, विरोधाभावात्, अङ्गाङ्गिभावेन सामान्यविशेषभावापत्तेः सर्वस्य, कस्मात्तर्हि अपोहते? उच्यते
'स्वार्थावबद्धशक्तिश्च भेदो भेदमपोहते।
सामान्यार्थविशेषार्थविधिमनियमश्रुतेः ॥२ १. प्रमाणसमुच्चयः २. तत्रैव