________________
२८४
द्वादशारनयचक्रे
संवृत्तस्तदुपसर्जनश्वापोहोऽसत्त्वादसत्यः उक्तवदेवेत्येष शब्दस्य विशेषार्थविधिरिति। ___यत्त्वविरोधादित्युक्तं सोऽप्येवमेवाविरोधो घटते भवनविध्येकार्थीभूतत्वान्नान्यापोहे,अन्यत्वाविशेषात्, अभावतुल्यत्वाच, समूहश्च प्रकृतिप्रत्ययादीनां तदर्थान्तरवाचकः, एवञ्च विधिप्रधानशब्दार्थत्वात् सामान्यविशेषशब्दयोः प्रकृतिप्रत्यययोर्भवनसामान्यापरित्यागिनोस्तद्विशेषकर्तृपदार्थवाचित्वं समूहेन भवतीति नीलोत्पलमिति वर्तिपदार्थभवनसामान्यवाचिनोविशेषणविशेष्यत्वसम्बन्धलक्षणसामान्यविशेषभाविवृत्त्यर्थवाचित्वम्, ब्यादिसमूहस्य वाक्यार्थवाचकत्वम्, उपात्तार्थाविरोधिसामान्योपसर्जनप्रकृतविध्यर्थत्वात् सर्वशब्दानाम्।
अयश्च...... ॥ अनेन पारतन्त्र्यात् सच्छब्दानाक्षेपवचनेन सन् घट इति सामानाधिकरण्यं न प्राप्नोतीति प्रत्युक्तं प्रतिषेधसामानाधिकरण्यं वेदितव्यम्। आह च -
'तन्मात्राकाणाझेदः स्वसामान्येन नोज्झितः।
नोपात्तः संशयोत्पत्तेः साम्ये चैकार्थता तयोः॥ इति, आत्मार्पणामात्रमाकाङ्कति सामान्यं स्वभेदे, अतस्तन्मात्राकाङ्क्षणाद्भेदः शिंशपा वृक्षण सामान्येन नास्ति ततोऽन्यश्चेति किं तर्युपात्त एव तदनुबद्धतत्त्वात्, अन्यत्वे सत्यप्येककार्यत्वादेकार्थता सामान्यविशेषयोरन्योऽन्यापरित्यागे सत्यात्मलाभादन्यतरत्यागे
१. प्रमाणसमुच्चयः