________________
अष्टमोऽर: उभयनियमनयः
२८३
स्वार्थमभिधत्ते, इतरथा किमित्यसावपोहेताप्रतिपादयन् किश्चित्? यदिसोऽप्यपोहपर एव स्यात् शिंशपाशब्दो न विदध्याद्वृक्षार्थम्, शिंशपाविशेषात्मापन्नव्यावृत्तत्वात्, नानुमन्येत नाप्यपोहेत वाऽर्थापत्तिलभ्यत्वाद्वृक्षार्थो मा भूत्, तथा चोपात्तार्थविरोध इति, कुतोऽविध्यननुमत्यव्युदासा इति चेदनर्थित्वात्, अनर्थी हि शिंशपाशब्दो वृक्षादिना सामान्येन, अशिंशपाभवनवत्, अशिंशपा घटादि तदभवन एवापक्षीणशक्तितया वृक्षादिसामान्यात्मकशिंशपाविधाने व्यापार एव नास्ति, यदसौ शिंशपाशब्दो शिंशपार्थघटादिभ्योऽन्यत्वेन वृक्षादिसामान्यात्मकं स्वार्थमनन्यत्वेन विदधाति ततस्तेन सह वृक्षः शिंशपेति सामानाधिकरण्यं प्रतिपद्यते । वृक्षः शिंशपेति तद्भवनविध्येकार्थी भावात् तद्भवनविधिविनाभावे तु न युज्यते, भवनविधिविनाभूतं सामान्यानाक्षेपि न समानाधिकरणं, वृक्षः शिंशपेति त्वदभिमतं वस्तु स्याद् भावत्वादवृक्षत्वाद्वन्ध्यापुत्रवत्, कुतोऽस्य सामान्यस्य सामान्यत्वम्? शिंशपादि भेदस्याभावत्वे सत्यसिद्धत्वात् कथं तर्हि सोऽपि भेदो न भवति वृक्षः शिंशपादिः, अन्यस्मादव्यावृत्तेः, वृक्षः शिंशपाभावादाम्रादेरव्यावृत्तेः शिंशपैव न भवति कुतो भेदः ? अत्रोच्यते यद्यसावप्यभेदो न भवति न तर्हि शिंशपा शिंशपा भवति, अभूतवृक्षादिभेदत्वात् घटवत् सोऽप्येवमेव, अभूतमृदायभेदत्वात् एवं सर्वत्र सामान्येन न भवन्त्यर्थाः स्वसामान्यशून्यत्वात्, खपुष्पवत् । एवञ्च सर्वमिदं दृश्यादिवस्तु शून्यमापद्यते त्वन्मतेनैवेति कः केन - कस्माद्वाsपोहते, अथ कथञ्चित् भवन्नपि वृक्षो वृक्षो न भवतीति शिंशपा भवत्यपि शिंशपा न भवतीतीष्यते ततो विधिर्विषयः