________________
२८२
द्वादशारनयचक्रे
भवनविधिविनाभूतं भेदानाक्षेपि न समानाधिकरणं वृक्षः शिंशपेति त्वदभिमतं वस्तु स्यात्, अभावत्वात् वन्ध्यापुत्रवत्।
कुतोऽस्य भेदस्य भेदत्वम्? वृक्षसामान्यस्यावृक्षाभावत्वे सत्यसिद्धत्वात्, कथं सोऽपि तबभेदो न भवति शिंशपादिवृक्षः? अनिवृत्तेः, शिंशपा वृक्षाभावाव्यावृत्तो वृक्ष एव न भवति कुतोऽभेदः, अत्रोच्यते यद्यसावपि भेदो न भवति न तर्हि वृक्षो वृक्षो भवति, अभूतशिंशपादिभेदत्वात्, घटवत् सोऽप्येवमेव, अभूतग्रीवादिभेदत्वात्, वृक्षवत्, एवं ग्रीवादिरभूतकपालादित्वादित्यादि यावत् परमाणुर्न भवत्यभूतरूपादिभेदत्वात्, विज्ञानवत्, रूपादिरप्यरूपादि, अभूतरूपक्षणभेदत्वात्, विज्ञानवदेव, सर्वत्र वा सामान्येन न भवन्त्यतोऽर्थाः स्वभेदशून्यत्वात् खपुष्पवत्, एवञ्च सर्वमिदं दृश्यादिवस्तु शून्यमापद्यते त्वन्मतेनैव कः किं केन कस्माद्वाऽपोहते?
अथ कथञ्चित् भवत्यपि वृक्षोऽवृक्षो न भवति शिंशपा न भवति शिंशपाभवत्यपीतीष्यते ततो ब्रूमः स्वार्थे इत्युक्तेविधिविषयः संवृत्तोऽर्थः, तदुपसर्जनश्वापोहोऽसत्त्वादसत्यः, उक्तवदेवेत्येष शब्दस्य विशेषार्थविधिः, एतेन सामान्यशब्दार्थविशेषताप्युक्तैव। ___ यथाऽन्यत्वे विशेषप्राधान्यात् सामान्यभेदपर्यायशब्दार्थास्तदङ्गत्वात्तदात्मकत्वाद्वा नापोह्यन्ते तथा विवक्षितशब्दादन्यस्याविशेषशब्दस्य स्वार्थं विशेषशब्दोऽभिधत्तेऽतत्त्वेनात्मानं विदधत् अभेदत्वान्न सत्त्वापत्तिपरित्यागेनैकान्तं विविक्तम्, नाप्यवृक्षायसत्त्वापत्तिमेव, किन्तु शिंशपादिशब्दः तत्सम्परिग्रहेण शिंशपादि, अत्यजन्नेवानुवृत्तिव्यावृत्ती तदुपसर्जनाशिंशपाऽभवनबीजतां यन्