________________
अष्टमोऽर: उभयनियमनयः
विशेषणस्वरूपापन्नविशेष्यप्रतीतित्वात् युगपदप्रयोगेऽपि स एव निमित्तोपलक्षितो भेदः प्रतीयते, न हि स्वार्थानुपातित्वाद्विधिः स्वरससमापतितः प्रतिक्षेप्तुं युक्तो निमित्तान्तरेणापि तस्यैव प्रतीतेः ।
२८१
सुदूरमपि गत्वा तेन विना तदगतेरक्लेशेनागतो विधिरेव शब्दार्थः पर्याय इति, अत एव चाविनाभावात् सामान्यशब्देनापि स एव विशेषार्थः साक्षाद्विधिना प्रतीयते सर्वथाऽव्यवहितविधिवृत्तिना विधिना स्वभेदाः समाक्षिप्तास्तद्रूपपरमार्थत्वेनाङ्गाङ्गिभावगत्या, प्रतिषेधव्यापारनिराकाङ्क्ष विधिरूपेण विवक्षितविध्यर्थस्य प्रतिपत्तौ तस्योपसर्जनत्वेनापोहबुद्धेरनुत्पत्तेरेव स्वात्मा विधिः प्रधानोऽपोहोs प्रधानः, शिंशपाद्युपहारिवृक्षशब्दार्थेऽघटावतारवत्, यथा वृक्ष इत्युक्ते शिंशपादिभेदानामन्यतमेन विनाऽर्थवान्न भवति वृक्षशब्द इति शिंशपाद्युपहरन्नर्थवान्, तस्मिन् मूलादिमति शिंशपाद्यवश्यम्भाविविशेषस्वभावेऽर्थेऽघटानवतारः, अघटो न भवतीत्यस्य तु दूरत एव ।
यदि तु सोऽप्यपोहपर एव स्यात् ततः सोऽवृक्षव्यावृत्ति वृत्तत्वाद्वृक्षभेदशिंशपादीन्नाक्षिपेत् नानुमन्येत न व्युदस्येत वा, अनर्थित्वादवृक्षाभवनवत्, अवृक्षो घटादि तदभवनस्य भेदानाक्षेपवद्वृक्षशब्दस्य व्यावृत्तिवृत्तत्वाद्भेदाक्षेपे व्यापार एव नास्ति, यदसौ वृक्षार्थं घटादिभ्योऽन्यत्वेन शिंशपादिभेदात्मकं स्वार्थमनन्यः त्वेनाक्षिपति तस्मात्तेन सह सामानाधिकरण्यं प्रतिपद्यते वृक्षः शिंशपेति तद्भवनविध्येकार्थीभावात्, तद्भवनभवनविधिविनाभावे तु न युज्यते, भवनविधिविनाभूतस्य भेदाक्षेपाभावात्, साधनमप्यत्र