________________
२८०
द्वादशारनयचक्रे एवं तावद्धटे विशेषशब्दार्थे पार्थिवद्रव्यसत्त्वादिसामान्यात्यागो युक्तो विधिप्रधानशब्दार्थत्वात्।
भेदास्तूच्यन्त एव, घटसामान्यस्य तदङ्गत्वात्, तद्भवनात्मकत्वात्, रूपादिस्वरूपशब्दार्थत्ववत् सामान्योपसर्जनद्वारेण प्रतिपादनार्थं सामान्यशब्दाः प्रयुज्यन्ते न तु परमार्थसता कल्पितेन वा विना तेन शब्दार्था भवितुमर्हन्तीति सामान्यशब्दप्रयोगो विशेषप्रतिपादनार्थः, विशेषास्तु विवक्षिता एव विशेषपरमार्थत्वात् अस्य नयस्य।
पर्यायशब्दा अपि तद्विधानाः, घटनविशेषस्य कुटनकुम्भायर्थात्मकत्वात्, कुटनघटनाभ्यां विना नास्ति कुम्भता नाम काचित्, तया वा विना न घटनकुटने स्त इत्येतदवगम्यतां घट इत्युक्ते तत्प्रतिपक्षशब्दार्थवदप्रतिपक्षसामान्यविशेषपर्यायशब्दार्था अन्ये ततस्तेषामान्यत्वे तुल्ये विधिप्राधान्यादेव तानापोहते । अतोऽ स्माकमपवादलक्षणान्तरारम्भक्लेशाहते व्यापि युक्तञ्चासत्योपाधिसत्यविध्यर्थलक्षणशब्दार्थकथनम्, भवतस्तु विध्यतिक्रमेण प्रस्तुतासत्त्वशब्दार्थानापत्तिरन्यापोहायुक्तिश्च ।
एषोऽप्यनिष्टोपचयः उदकाचाहरणार्थिने घट इत्युक्तेऽ प्रस्तुतव्यावृत्तिशब्दार्थतापत्तिः, विधिपक्षे च साक्षादेव स्वार्थं ब्रूत इत्येष च विशेषः, पर्यायशब्दस्य तावत् घटकुटादेविधेय एवार्थः, दर्शनात्, तदेव हि विधेयं घटनं कुटनमुभयं वा, द्विमातृवत्, यथा विशेषणद्वारेण विशेष्यप्रधाने निर्देशे राधकमाता पूर्णकमाता राधकपूर्णकमातेति द्वाभ्यामन्यतरेण वा विशिष्यते सैव, तथा