SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २८० द्वादशारनयचक्रे एवं तावद्धटे विशेषशब्दार्थे पार्थिवद्रव्यसत्त्वादिसामान्यात्यागो युक्तो विधिप्रधानशब्दार्थत्वात्। भेदास्तूच्यन्त एव, घटसामान्यस्य तदङ्गत्वात्, तद्भवनात्मकत्वात्, रूपादिस्वरूपशब्दार्थत्ववत् सामान्योपसर्जनद्वारेण प्रतिपादनार्थं सामान्यशब्दाः प्रयुज्यन्ते न तु परमार्थसता कल्पितेन वा विना तेन शब्दार्था भवितुमर्हन्तीति सामान्यशब्दप्रयोगो विशेषप्रतिपादनार्थः, विशेषास्तु विवक्षिता एव विशेषपरमार्थत्वात् अस्य नयस्य। पर्यायशब्दा अपि तद्विधानाः, घटनविशेषस्य कुटनकुम्भायर्थात्मकत्वात्, कुटनघटनाभ्यां विना नास्ति कुम्भता नाम काचित्, तया वा विना न घटनकुटने स्त इत्येतदवगम्यतां घट इत्युक्ते तत्प्रतिपक्षशब्दार्थवदप्रतिपक्षसामान्यविशेषपर्यायशब्दार्था अन्ये ततस्तेषामान्यत्वे तुल्ये विधिप्राधान्यादेव तानापोहते । अतोऽ स्माकमपवादलक्षणान्तरारम्भक्लेशाहते व्यापि युक्तञ्चासत्योपाधिसत्यविध्यर्थलक्षणशब्दार्थकथनम्, भवतस्तु विध्यतिक्रमेण प्रस्तुतासत्त्वशब्दार्थानापत्तिरन्यापोहायुक्तिश्च । एषोऽप्यनिष्टोपचयः उदकाचाहरणार्थिने घट इत्युक्तेऽ प्रस्तुतव्यावृत्तिशब्दार्थतापत्तिः, विधिपक्षे च साक्षादेव स्वार्थं ब्रूत इत्येष च विशेषः, पर्यायशब्दस्य तावत् घटकुटादेविधेय एवार्थः, दर्शनात्, तदेव हि विधेयं घटनं कुटनमुभयं वा, द्विमातृवत्, यथा विशेषणद्वारेण विशेष्यप्रधाने निर्देशे राधकमाता पूर्णकमाता राधकपूर्णकमातेति द्वाभ्यामन्यतरेण वा विशिष्यते सैव, तथा
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy