________________
अष्टमोऽर: उभयनियमनयः
२७९ मात्राक्षेपस्तर्हि भविष्यति, तदीप न गुणाीदव्यभिचारात्, एतावच्च......।
मा मंस्था अन्यापोहवादिलक्षणवदतिप्रसक्तत्वादपवादोऽस्या -प्यारब्धव्यो लक्षणस्येति किमन्यत्वे न सामान्यभेदपर्यायवाची? किं त्वं मन्यसेऽन्यत्वे सामान्यभेदपर्यायशब्दानामर्थं वृक्षश्रुति पोहतेऽ विरोधात्, विरोधाच्च पटादीनपोहते, अस्य हि विरुद्धाविरुद्धयोरन्यत्वादपोहानपोप्रसङ्गे तुल्ये त्वयेव मयाऽपवादो नारन्धोऽनारभ्य विधित्वात्, विधिना हि सामान्योपसर्जनं विशेषं शब्दोऽभिदधानो विरोधाभावात्तानपि गमयति, त्वया पुनरुत्सर्गवाक्ये महता क्लेशेन प्रतिपाद्यान्यापोहोऽपवादेन त्यक्तः, अनिर्वाहकत्वात्, सामान्यादिशब्दान्तरार्थापोहानिष्टेः, ततः सामान्यादिशब्दान्तरात्यागात्तु नन्वयमेव परमविधिः । विधानं विधिः लक्षणतस्त्वनपवादं प्रतिपत्त्याधानम्, स च शब्दार्थः सामान्यादिशब्दार्थेष्वव्याहतत्वात् परमः।
तत्र तावत्सामान्यादुक्तिः सामान्ये विशेषविध्यर्था न व्याहन्यते, त्वयैव सामान्यं नापनुदतीत्युक्तत्वात्, अस्मदिष्ट उपसर्जनी -कृतसामान्यो विशेषो विधिनैवोक्तः, यथा न हि घटादिबाह्यवस्तु सामान्योपसर्जनमन्तरेण भवितुमर्हति वस्तुत्वात्, आत्मवत्, यथा नामरूपसन्तानाख्य आत्मा शरीरादिप्रतिक्षणदेशभिन्नरूपादिसुखविज्ञानादिविशेषतत्त्वार्थो नरकमनुजादि विशेषतत्त्व आमुक्ते। सन्तानाख्यसामान्योपसर्जनमन्तरेण न भवितुमर्हति, एवं घटशब्देनाप्यागृहीता मृदादयस्तच्छब्दार्थान्तःपातित्वात्, आकारादिवत् ।