________________
द्वादशारनयचक्रे
तैस्तद्वाचिभिः सह सामानाधिकरण्यं भवति, यथा नीलतरः पटो for इति चेति ।
२७८
तच्च न, सामान्यविशेषभावस्य नीलुत्वनीलगुणद्रव्यादेरनीलत्वानीलगुणद्रव्यनिवृत्तिलक्षणस्य तच्छब्दार्थाभावात् सम्प्रधार्यत्वात् नीलशब्दोऽपि हि न द्रव्यं नीलत्वेनाह यत्तत्तरतमादि प्रकर्षभेदस्य सामान्यं स्यात्, किं तर्हि ? अनीलवदभावम्, तत्र च न नीलनीलतरनीलतमानां कस्यचिदपि सम्भवः, अनीलाभावभावत्वान्नेति चेत्, एवं विधिशब्दार्थता तर्हि सैव, एवं हि सतोऽपि न सामानाधिकरण्यम्, अभूतसामान्यविशेषविषयत्वात् ।
उपेत्यापि तु व्यावृत्तिमदभिधानं सामान्यविशेषत्वाभावोऽसदघटादिव्यावृत्तिमताम्, जातेरजातितः, न ह्यभिधानप्रत्ययहेतौ सज्जातौ घटत्वजातिरस्ति, यथा नीलगुणे द्रव्ये नीलप्रकर्षभेदः, यतोऽसदसत्त्ववतो वस्तुनोऽघटाभावघटत्वादीनुपादाय प्रवर्तेत, द्रव्याणि तावदपोहवादिनस्तेऽस्माकमिव न घटाद्यभिधानानां हेतवः, यानि तत्कारणान्यघटासत्त्वादीनि तानि नासदसत्तायाम्, न चाविद्यमानः स्वात्मन्यर्थः शक्यते विशेष्यवस्तुन्यध्यारोपयितुम्, स्वरूपवत् । तस्मादविद्यमानतद्रूपं नीलमिव मधुरं न सद्धटादीन् विशेषयिष्यतीति कथं सामानाधिकरण्यं स्यात् ?
अर्थाक्षिप्तास्तर्हि असद्व्यावृत्तिमतोऽन्यतमघटत्वादिसामान्यविशेषानुबद्धत्वात्, नैतदस्ति, अर्थाक्षेपेऽप्यनेकान्तात्... असद्व्यावृत्तिमता विशेषाक्षेपो युज्यते चेद्भेदानां व्यभिचाराद्द्रव्यत्व